बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 546, कुल 1105 में से
संदर्भ में पढ़ेंAdh. LXI. Sl. 2-4.] एकषष्टितमोऽध्यायः 527
सास्त्राविलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा गावः ।
प्रचलचिपिटविषाणाः करटाः खरसदृशवर्णाश्च ॥२॥
दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठ्यः ।
ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥३॥
श्यावातिदीर्घजिह्वा गुल्फैरीततनुभिरीतबृहद्भिर्वा ।
अदिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च ॥४॥
तथा च पराशरः ।
साश्रूणी लोचने यासां रूक्षाल्पे च न ताः शुभाः ।
चलच्चिपिटशृङ्गाश्च करटाः खरसन्निभाः ॥
दशसप्तचतुर्दन्त्यो ऽलम्बवक्त्रा न ताः शुभाः ।
विषाणवर्जिता ह्रस्वाः पृष्ठमध्यातिसन्नताः ॥
ह्रस्वस्थूलगला याश्च यवमध्याः शुभा न ताः ।
भिन्नपादा बृहत्कुफा याश्च स्युस्तनुगुल्फकाः ॥
श्यावातिदीर्घजिह्वाश्च महत्ककुदसंयुताः ।
याश्चातिकृशदेहाश्च हीना अवयवैश्च याः ॥
न ताः शुभप्रदा गावो भर्तुर्यूथस्य नाशना ।