बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 536, कुल 1105 में से
संदर्भ में पढ़ेंAdh. LVIII. Sl. 58.] अष्टपञ्चाशोऽध्यायः 517
ब्रह्मा चतुर्मुखो दण्डी कृष्णाजिनकमण्डली ।
विष्णुश्चतुर्भुजः शार्ङ्गी शङ्खचक्रगदाधरः ।
श्रीवत्साङ्कः पीतवासा वनमालाविभूषितः ॥
नरसिंहः स्थूलदेहो रोमावर्तविभूषितः ।
उद्घाटितमुखः स्रग्वी वह्निकान्तिर्बृहद्भुजः ॥
वराहः सूकरमुखश्चतुर्बाहुविभूषितः ।
नीलाञ्जनचयप्रख्यो ध्यानशक्तः सुलोचनः ॥
ईश्वरो जटिलस्त्र्यक्षो वृषचन्द्राङ्कभूषितः ।
उरगेन्द्रोपवीती च कृत्तिवासाः पिनाकधृक् ॥
चण्डिकाष्टदशभुजा सर्वप्रहरणान्विता ।
त्र्यक्षा सिंहरता धन्या महिषासुरसूदिनी ॥
मयूरवाहनः स्कन्दः शक्तिकुक्कुटधारकः ।
सुरूपदेहः विक्रान्तो देवः सेनापतिः शिशुः ॥
आदित्यस्तरुणः स्रग्वी कवची खड्गधृत्तथा ।
तेजस्वी पद्मकरः षड्वर्गैश्च किरीटवान् ॥
ऐरावतश्चतुर्दन्तः श्वेतगात्रो महागर्जः ।
तदारूढो महेन्द्रस्तु वज्रहस्तं महाबलः ॥
तिर्यंग्ललाटगं नेत्र तृतीयं तस्य कारयेत् ।
नीललोहितवर्णा च शची तस्य समीपगा ॥
एवं देवगणाः सर्वे स्वायुधाभरणोज्ज्वलाः ।
कर्तव्याः स्वरूपाश्च संम्पूर्णाः शुभलक्षणाः ॥
हस्तमात्रा भवेत्सौम्या द्विहस्तान्नधनप्रदा ।
सुभिक्षक्षेमदा पुण्या त्रिहस्ता तु चतुष्करा ॥
वैकल्यं कुरुते हीना कृशाङ्गी देहनाशिनी ।
मरणं सक्षतायां तु सुदीर्घा वित्तनाशिनी ॥
वामे नता हन्ति पत्नीं कर्तुर्दक्षिणभागगा ।
ऊर्ध्वदृष्टिर्नेत्ररोगं गोकर्णा स्यादधोमुखी ॥
सुरुपा सुप्रभागैश्च सर्वाभरणभूषिता ।
स्वायुधैश्च समायुक्ता कर्तव्या प्रतिमा शुभा ॥
प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारधारी स्यात् ।
एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम् ॥५८॥