बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 529, कुल 1105 में से
संदर्भ में पढ़ें[Header] 510 बृहत्संहितायाम् [Adh. LVIII. Sl. 29.
द्व्यङ्गुलौ पृथुलौ कर्णौ स्रोतस्तत्सममेव तु ॥
कर्णनेत्रान्तरं कुर्यात्तत्प्रमाणं चतुरङ्गुलम् ।
अधरोऽङ्गुलमानं तु तदर्धेनोत्तरः स्मृतः ॥
चतुरङ्गुलकं वक्त्रं नासाग्रं तद्वपुःसमम् ।
नेत्रे द्व्यङ्गुले दीर्घे तत्रिभागेऽथ तारका ॥
दृक्तारापञ्चमांशेन दृष्टिकाङ्गुष्ठमार्गगा ।
द्व्यङ्गुलं चाक्षिपूटकं तथा नासापुटौ स्मृतौ ॥
कर्णश्रोतोऽङ्गुलमितं सुकुमारावधिश्च यः ।
गोच्छा चाङ्गुलिका कार्या तत्समा केशरेखिका ॥
द्व्यङ्गुलौ तु स्मृतौ शङ्खावाननी चतुरङ्गुलो ।
चतुर्दशाङ्गुलः शीर्षो द्वात्रिंशत् परिणाहतः ॥
एकाविंशत् स्मृता ग्रीवा विस्तारतश्चाष्टाङ्गुला ।
कण्ठाच्चाहृदयं नाभी मेढ्रं यावद्द्वादशाङ्गुलम् ॥
ऊरू जङ्घे चतुर्विंशा जानू च चतुरङ्गुलो ।
द्वादशाङ्गुलिको पादौ विस्तारस्तु षडङ्गुलाः ॥
गुल्फादधोभागगतं चतुरङ्गुलमुच्यते ।
अङ्गुष्ठं द्व्यङ्गुलं दीर्घं प्रदेशिन्या समं तथा ॥
शेषाः पादानुसारेण परिहीणा यथाक्रमम् ।
जङ्घाग्रे परिधिर्ज्ञेयो ह्यङ्गुलानां चतुर्दश ॥
ऊरु तद्द्विगुणो प्रोक्तः कटिस्त्रिगुणतः स्मृता ।
अङ्गुलं तु भवेन्नाभी वेधगाम्भीर्यतोऽपि वा ॥
नाभीमध्यं परीणाहश्चत्वारिंशत्प्रकीर्तितः ।
षोडश स्तनयोर्मध्यं कक्ष्ये ऊर्ध्वं षडङ्गुले ॥
अष्टाङ्गुलौ स्मृतौ स्कन्धौ बाहू त्रिंशच्चतुर्युतौ ।
बाहू मूले षोडश स्याद्धस्ताग्रे द्वादश स्मृताः ॥
षडङ्गुलं हस्ततलं सप्त दैर्घ्येण च स्मृतम् ।
पञ्चाङ्गुला भवेन्मध्या तर्जन्यर्धाङ्गुलोनिता ॥
अनामिका च तत्सुल्या कनिष्ठा चाङ्गुलोनिता ।
सुरूपाक्षाश्च कर्तव्या द्विपर्वाङ्गुष्ठिकासमृता ॥
त्रिपर्वाङ्गुलयः शेषा नखाः पर्वाधविस्तृताः ।
देशवेषयुतान् हस्तान् सौम्यरूपांश्च कारयेत् ॥
स्वरूपा लक्षणोपेता प्रतिमा वृद्धिदा भवेत् ।