बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 52, कुल 1105 में से
संदर्भ में पढ़ें' Adh. IV. Sl. 1-2] चतुर्थोऽध्यायः 33
तथा च पराशरः
श्वेतः शिरीषपुष्पाभः पद्माभो रूप्यसन्निभः ।
वैदूर्यघृतमण्डाभो हेमाभश्च दिवाकरः ॥
वर्णैरेभिः प्रशस्तस्यान्महास्निग्धः प्रतापवान् ।
भावनः सर्वसस्यानां क्षेमारोग्यसुभिक्षकृत्ः ॥
Thus ends the Third Adhyaya on the 'Course of the Sun.'
चन्द्रचारः ॥४॥ The Moon.
नित्यमधःस्थस्येन्दोर्भाभिर्भानोः सितं भवत्यर्द्धम् ।
स्वच्छाययान्यदसितं कुम्भस्येवाऽऽतपस्थस्य ॥१॥
Sloka 1.—The Moon being always below (or nearer
to the Earth than the Sun) has half her orb illuminated
by the rays of the Sun and white, while the other half
is dark or black being obscured by her own shadow just
as one half of a pot exposed to the Sun.
तथा च ब्रह्मसिद्धान्ते
रविदृष्टं सितमर्द्धं कृष्णमदृष्टं यथाऽऽतपस्थस्य ।
कुम्भस्य तथासन्नं रवेरधस्थस्य चन्द्रस्य ॥
तथा च सूर्यसिद्धान्ते
महतश्चाप्यधःस्थस्य नित्यं भासयते रविः ।
अर्द्धं शशाङ्कबिम्बस्य न द्वितीयं कथञ्चन ॥
सलिलमये शशिनि खेर्दीधितयो मूर्च्छितास्तमो नैशम् ।
क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः ॥२॥
Sloka 2.—The rays of the Sun falling on and being
reflected by the watery Moon dispels the darkness of the
night (on Earth) just in the same way as light reflected
from a mirror (placed in the Sun) removes the darkness
within a room.
ब्र. सं. 5