सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 474, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 474

Adh. LIII. Sl. 114.] त्रिपञ्चाशोऽध्यायः 455
आमिषं च तथा मद्यं फलानि विविधानि च ।
क्षीरोदनं पूर्णकुम्भान् कोणे कोणे प्रदापयेत् ॥
नानाविधानि भक्ष्याणि पानानि विविधानि च ।
हुत्वाग्निं विधिवत्काले मुहूर्त्ते चोपपादिते ॥
गृहकोणेषु सर्वेषु पूजां कृत्वा विधानतः ।
ततः पुण्याहघोषेण शिलान्यासं प्रकल्पयेत् ॥
ऐशानमादितः कृत्वा प्राग्दाक्षिण्येन विन्यसेत् ।
अनेनैव विधानेन स्तम्भद्वारावरोहणम् ॥
वास्तुविद्याविधानज्ञः कारयेत्सुसमाहितः ।
शिलान्यासमन्त्रोऽयं निर्दिष्टो मुनिभिः पुरा ॥
नन्दे नन्दायवासिष्ठे वसुमित्र हितप्रजे ।
सुचिरे नन्ददे नन्दे वासिष्ठ रम्यतां गृहे ॥
भद्रे काश्यपदायादे पूजनं भद्रमावह ।
सुभगे सुव्रते देवि गृहे काश्यपि रम्यताम् ॥
जये भार्गवदायादे प्रजानां भद्रमावह ।
भव भूतिकरी देवि गृहे भार्गवि रम्यताम् ॥
सर्वबीजसमायुक्ते सर्वगन्धौषधैर्वृते ।
प्रजापतिसुते देवि सुखदाऽस्तु महीसुते ॥
पूर्णेऽङ्गिरसदायादे पूर्णकामाः प्रजाः कुरु ।
पूजिते परमाचार्ये गन्धमाल्यैरलङ्कृते ॥
अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते ।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां गृहिणः कुरु ॥
ग्रामस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।
मनुष्यपशुशस्यश्वधनवृद्धिकरी भव ॥
विहगादिभिरवलीनैराकम्पितपतितदुःस्थितैश्च तथा ।
शक्रध्वजसदृशफलं तदेव तस्मिन्वनिर्दिष्टम् ॥११४॥
Sloka 114.—When the pillars, etc., are mounted by
birds and the like, when they shake, fall or are wrongly
placed, the same effects have to be predicted as for
Indra's Banner. Vide-Adhyaya XLIII, Slokas 62-66,
supra.