बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 472, कुल 1105 में से
संदर्भ में पढ़ेंAdh. LIII. Sl. 108-109.] त्रिपञ्चाशोऽध्यायः 453
be told that the specified spot contains a bone of such an
animal and belonging to the limb corresponding to that
touched by the owner.
सूत्रे प्रसार्यमाणे गर्दभरावोऽस्थिशल्यमाचष्टे ।
श्वशृगाललङ्घिते वा सूत्रे शल्यं विनिर्दिश्यम् ॥१०८॥
Sloka 108.—The braying of an ass at the time of
stretching the measuring string indicates the presence of
a bone underneath. Similarly when the string is crossed
by a dog or jackal, the same fault is to be predicted.
दिशि शान्तायां शकुनिर्मधुरविरावी यदा तदा वाच्यः ।
अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठितेऽङ्गे वा ॥१०९॥
Sloka 109.—If at that time, a bird sitting in a 'calm'
direction warbles sweetly, it is to be understood that
there is a hidden treasure on the spot or in the limb of
the House-God occupied by the owner.
तथा च गर्गः
प्रश्नकाले गृहपतिः कस्मिन्नङ्गे समास्थितः ।
किमङ्गं संस्पृशेद्व्वापि व्याहरेद्वा शुभाशुभम् ॥
विलोक्य स्थपतिः पूर्वं पश्चाच्छल्यं विचारयेत् ।
शङ्खभेरीमृदङ्गानां पटहानां च निःस्वनाः ॥
दध्यक्षतानां पुष्पाणां फलानां दर्शनानि च ।
प्रष्टुश्च प्रवदेच्छल्यं वास्तुज्ञानविशारदः ॥
दीप्तदिक्संस्थितः पक्षी विरौति पौरुषं रवम् ।
स्पृष्टाङ्गसदृशं शल्यं तस्य स्थाने विनिर्दिशेत् ॥
निखनेदवनिं तत्र तदङ्गं त्रुडते यथा ।
गृहनाथस्य तत्राधः शल्यं निःसंशयं वदेत् ॥
प्रश्नकाले गजो गौर्वा तुरगो गर्दभोऽपि वा ।
उष्ट्रो वा सारमेयो वा मार्जारश्छागरोऽपि वा ॥
यः प्राणी व्याहरेत्तत्र तद्भवं शल्यमादिशेत् ।
प्रमाणं तस्य वक्तव्यं पूर्वोक्तविधिना ततः ॥