बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 410, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XLVIII. Sl. 55-65.] अष्टाचत्वारिंशोऽध्यायः 391
Sloka 54.—Then, the royal priest should remove
the blanket and bathe the king with the “ Waters of the
Royal Ablution ” containing fruits and flowers, reciting
the following hymns :
सुरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ।
ब्रह्मा विष्णुश्च रुद्रश्च साध्याश्च समरुद्गणाः ॥५५॥
आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ ।
अदितिर्देवमाता च स्वाहा सिद्धिः सरस्वती ॥५६॥
कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहूस्तथा ।
दनुश्च सुरसा चैव विनता कद्रुरेव च ॥५७॥
देवपत्न्यश्च या नोक्ता देवमातर एव च ।
सर्वास्त्वामभिषिञ्चन्तु दिव्याश्चाप्सरसां गणाः ॥५८॥
नक्षत्राणि मुहूर्त्ताश्च पक्षाहोरात्रसन्धयः ।
संवत्सरा दिनेशाश्च कलाः काष्ठाः क्षणा लवाः ॥५९॥
सर्वे त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ।
एते चान्ये च मुनयो वेदव्रतपरायणाः ॥६०॥
सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः ।
वैमानिकाः सुरगणा मनवः सागरैः सह ॥६१॥
सरितश्च महाभागा नागाः किम्पुरुषास्तथा ।
वैखानसा महाभागा द्विजा वैहायसाश्च ये ॥६२॥
सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च ।
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ॥६३॥
भृगुः सनत्कुमारश्च सनकोऽथ सनन्दनः ।
सनातनश्च दक्षश्च जैगीषव्यो भगन्दरः ॥६४॥
एकतश्च द्वितश्चैव त्रितो जाबालिकश्यपौ ।
दुर्वासा दुर्विनीतश्च कण्वः कात्यायनस्तथा ॥६५॥