बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 407, कुल 1105 में से
संदर्भ में पढ़ें388 बृहत्संहितायाम् [Adh. XLVIII. Sl. 39-44.
तथा च गर्गः
कलशैर्हेमताम्रैश्च राजतैर्मृन्मयैस्तथा ।
सूत्रसंवेष्टितग्रीवैश्चन्दनागुरुचर्चितैः ॥
प्रशस्तवृक्षपत्रैश्च फलपुष्पसमन्वितैः ।
पुण्यतोयेन सम्पूर्णै रत्नगर्भैर्मनोहरैः—इति ॥
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ।
जीवां विश्वेश्वरीं पाठां समङ्गां विजयां तथा ॥३९॥
सहां च सहदेवीं च पूर्णकोशां शतावरीम् ।
अरिष्टिकां शिवां भद्रां तेषु कुम्भेषु विन्यसेत् ॥४०॥
ब्राह्मीं क्षेमामजां चैव सर्वबीजानि काञ्चनीम् ।
मङ्गल्यानि यथालाभं सर्वौषध्योरसांस्तथा ॥४१॥
रत्नानि सर्वगन्धांश्च बिल्वं च सविकङ्कतम् ।
प्रशस्तनाम्न्यश्चौषधयो हिरण्यं मङ्गलानि च ॥४२॥
Slokas 39-42.—The Jyotishmatee (a kind of herb
known in Tamil as வாலுளுவை), Trayamana (a herb),
Haritaki (கடுக்காய்), Samee, (செம்பை) Jeevantee, Viswe-
swaree, Patha, red madder, Vacha (வசம்பு) Saha, Saha-
devee, Poornakosa, Satavaree, Arishtika, Siva (அரு
நெல்லி), Bhadra, Bramhee (பொன்னாங்காணி), Kshema, Aja,
all kinds of seeds, Kanchanee, all auspicious things (such
as curds, coloured rice and flowers) as far as available,
all herbs, juices of different tastes, gems, all perfumes,
Bilva and Vikankata fruits, herbs bearing auspicious
names, gold and auspicious materials—all these are to
be put into the several pots.
आदावनडुहश्चर्म जरया संहतायुषः ।
प्रशस्तलक्षणभृतः प्राचीनग्रीवमास्तरेत् ॥४३॥
ततो वृषस्य योधस्य चर्म रोहितमक्षतम् ।
सिंहस्याथ तृतीयं स्याद्व्याघ्रस्य च ततः परम् ॥४४॥