बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 398, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XLVIII. Sl. 1-3] .अष्टाचत्वारिंशोऽध्यायः 379
पुष्यस्नानम् ॥४८॥ Royal Ablution.
मूलं मनुजाधिपतिः प्रजातरोस्तदुपघातसंस्कारात् ।
अशुभं शुभं च लोके भवति यतोऽतो नृपतिचिन्ता ॥१॥
Sloka 1.—The king is the root of the subject-tree.
Since the happiness and misery of the people arise in
order from nourishing and injuring that root, it is neces-
sary to devise means to enhance the king's welfare.
या व्याख्याता शान्तिः स्वयम्भुवा सुरगुरोर्महेन्द्रार्थे ।
तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः शृणुत ॥२॥
Sloka 2.—Now listen, Ye, to the expiation, which
had been expounded by the Self-born to the Precep-
tor of Gods for the sake of Indra, and which, later,
the Senior Garga got and imparted to sage Bhaguri.
तथा च वृद्धगर्गः ।
देवाश्च दितिजैः सार्धं स्पर्धमाना हि मानिनः ।
परस्परं महद्युद्धं चक्रुः सर्वे सुरासुराः ॥
ततो दैत्यगणैः क्रुद्धैर्देवाः सर्वे विनिर्जिताः ।
ततोऽङ्गिराः सुरगुरुर्ध्यानसक्तोऽभवत्पुरा ॥
पुरन्दराभिषेकार्थं बृहस्पतिरकल्पयत् ।
तिष्यमात्मीयनक्षत्रं यस्य देवो बृहस्पतिः ॥
तेन चैवाभिषिक्तश्च देवराजः पुरन्दरः ।
ततो बलसमारूढो नाशयामास दानवान् ॥
देवाश्च हृष्टमनसः पुरीं प्राप्यामरावतीम् ।
पुष्यस्नानं बलतरं तदारभ्य प्रवर्त्तितम् ॥
पुष्यस्नानं नृपतेः कर्तव्यं दैववित्पुरोधाभ्याम् ।
नातः परं पवित्रं सर्वोत्पातान्तकरमस्ति ॥३॥
Sloka 3.—The royal astrologer and preceptor
should give the King an ablution on a day with the