बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 389, कुल 1105 में से
संदर्भ में पढ़ेंबृहत्संहितायाम्
ऐरावत
मृग- अज- दहन-
तथा च गर्गः ।
वर्णवन्तः स्वमार्गस्था नागवीथीविचारिणः ।
यदि ताराग्रहाः सन्ति सर्वलोकहितावहाः ॥
वैश्वानरपथप्राप्ता एकनक्षत्रचारिणः ।
पञ्च ताराग्रहांस्तस्थुर्विन्द्याल्लोकस्य सङ्क्षयम् ॥
कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिराम्प्रभविष्णौ ।
निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोगः ॥५॥
तथा च गर्गः ।
कोष्ठागारगते शुक्रे पुष्यस्थे च बृहस्पतौ ।
विन्द्यात्तदासुखं लोके शान्तशस्त्रमनामयम् ॥
पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवणमैन्द्रमेव वा ।
प्रोञ्झ्य सूर्यमपरे ग्रहास्तदा पश्चिमा दिगनयेन पीड्यते ॥६॥
तथा च गर्गेणोच्यते ।
वैष्णवं पित्र्यमाग्नेयं ज्येष्ठामपि च रोहिणीम् ।
पीडयन्ति यदैतानि राहुवच्छानुचारिणः ॥
दुर्भिक्षं जायते लोके सस्यमत्र न रोहति ।
शुष्यन्ति सरितः सर्वाः पर्जन्यश्च न वर्षति ॥