सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 377, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 377

358 बृहत्संहितायाम् [Adh. XLVI. Sl. 54-57.
तथा च गर्गः ।
अकाले प्रसवे चैव कालातीतेऽथवा पुनः ।
असंख्यजनने चैव युग्मस्य प्रसवे तथा ॥
अमानुषाणि काण्डानि सञ्जातव्यञ्जनानि वा ।
अनङ्गा ह्यधिकाङ्गा वा हीनाङ्गाः सम्भवन्ति वा ॥
विमुखाः पक्षिसदृशास्तथार्धपुरुषाश्च वा ।
विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत् ॥
अप्राप्तवयसे गर्भे द्वौ चतुष्पात्त्रयोऽपि वा ।
अत्युच्चा विनताश्चापि प्रजायन्तेऽनयो भवेत् ॥
वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते ।
विजन्यं विकृतं वापि षड्भिर्मासैर्नृपक्षयः ॥
नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना ।
तर्पयेच्च द्विजान् कामैः शान्तिः चैवात्र कारयेत् ॥५४॥
चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु ।
नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ॥५५॥
परयोनावभिगमनं भवति तिरश्चामसाधु धेनूनाम् ।
उक्षाणो वान्योन्यं पिबन्ति श्वा वा सुरभिपुत्रम् ॥५६॥
मासत्रयेण विन्द्यात्तस्मिन्निःसंशयं परागमनम् ।
तत्प्रतिघातार्थंतौ श्लोकौ गर्गेण निर्दिष्टौ ॥५७॥