बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 294, कुल 1105 में से
संदर्भ में पढ़ेंद्वात्रिंशोऽध्यायः
ऐन्द्रं स्तुतकुलजाति ख्यातावनिपालगणपविध्वंसि ।
अतिसारगलग्रहवदनरोगकृच्छ्रर्दिकोपाय ॥१८॥
काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः ।
अर्बुदसुराष्ट्रमालवपीडाकरमिष्टवृष्टिकारम् ॥१९॥
तथा च गर्गः
निशार्द्धे तु यदा पूर्वे उल्कानिर्घातभूचलाः ।
मैत्रेन्द्ववैश्वश्रवणाभिजिद्रोहिणिवासवैः ॥
स्यादिन्द्रसम्भवः कम्पो लक्षणानि च मे शृणु ।
वर्षन्ति बहवो मेघा वराहमहिषोपमाः ॥
मुञ्चन्तो मधुरान् रवान् विद्युद्भासितभूतलाः ।
सप्तमेऽहनि सम्प्राप्ते कम्पः स्यादिन्द्रसम्भवः ॥
पौष्णाप्यार्द्राश्लेषामूलाहिर्बुध्न्यवरुणदेवानि ।
मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि ॥२०॥
नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः ।
तडिदुल्लासितदेहा धाराङ्कुरवर्षिणो जलदाः ॥२१॥