बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 290, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XXXII. Sl. 2-7] द्वात्रिंशोऽध्यायः 271
ते श्वसन्ति यदा श्रान्ताः स वायुः श्वसितो महान् ॥
वेगान्महीं चालयन्ति भावाभावाय देहिनाम् । इति.
अनिलोऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्यन्ये ।
केचिच्चादृष्टकारितमिदमन्ये प्राहुराचार्याः ॥२॥
Sloka 2.—Yet, others there are who hold that it is
caused by the atmospheric wind colliding with another
and falling to the earth with a booming sound. There
are still others who maintain that it is occasioned by
some unseen power. Some more there are who declare
as follows :
तथा च वसिष्ठः ।
यदा तु बलवान्वायुरन्तरिक्षानिलाहतः ।
पतत्याशु स निर्घातो भवेदनिलसम्भवः ॥
तस्य योगान्निपततश्चलत्यन्याहता क्षितिः ।
सोऽभिघातसमुत्थः स्यात्सनिर्घातमहीचलः ॥ इति.
तथा च वृद्धगर्गः ।
प्रजा धर्मरता यत्र तत्र कम्पं शुभं वदेत् ।
जनानां श्रेयसे नित्यं विसृजन्ति सुरोत्तमाः ॥
विपरीतस्थिता यत्र जनास्तत्राशुभं तथा ।
विसृजन्ति प्रजानां तु दुःखशोकाभिवृद्धये ॥ इति.
गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च ।
आकम्पिता पितामहमाहामरसदसि सव्रीडम् ॥३॥
भगवन्नाम ममैतत्त्वया कृतं यदचलेति तन्न तथा ।
क्रियतेऽचलैश्चलद्भिः शक्ताहं नास्य खेदस्य ॥४॥
तस्याः सगद्गदगिरं किञ्चित्स्फुरिताधरं विनतमीषत् ।
साश्रुविलोचनमाननमालोक्य पितामहः प्राह ॥५॥
मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय ।
शक्रः कृतमित्युक्त्वा मा भैरिति वसुमतीमाह ॥६॥
किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् ।
प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति ॥७॥