बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 252, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XXIV. Sl. 27-28.] चतुर्विंशोऽध्यायः 233
तथा च गर्गः ।
सौम्ये तु श्रावणं विन्द्यात्पूर्वे भाद्रपदं वदेत् ।
दक्षिणेऽश्वयुजो ज्ञेयः पश्चिमे कार्तिकं विदुः ॥
सर्वे कुम्भाः सुपूर्णाः स्युरभग्नाः कान्तिसंयुताः ।
चतुरो वार्षिकान् मासान् सर्वान् वर्षति वासवः ॥
सर्वस्रुतैरवृष्टिः स्यादर्द्धैर्मध्यमवर्षणम् ।
द्रवैस्तथाविधा वृष्टिर्वक्तव्या जलमानतः ॥
अन्यैश्च कुम्भैर्नृपनामचिह्नर्देशाङ्कितैश्चाप्यपरैस्तथैव ।
भग्नैः स्रुतैर्न्यूनजलैः सुपूर्णैर्भाग्यानि वाच्यानि यथानुरूपम् ॥२७॥
तथा च काश्यपः ।
अन्यदेशाङ्किताः कुम्भा भिद्यन्ते च स्रवन्ति च ।
बन्धहीना वितोयाश्च तेऽभियोज्या नृपेण वै ॥
दूरगो निकटगोऽथवा शशी दक्षिणे पथि यथातथा स्थितः ।
रोहिणीं यदि युनक्ति सर्वथा कष्टमेव जगतो विनिर्दिशेत् ॥२८॥
बृ. सं. 30