बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 176, कुल 1105 में से
संदर्भ में पढ़ेंत्रयोदशोऽध्यायः
पूर्वे भागे भगवान्मरीचिरपरे स्थितो वसिष्ठोऽस्मात् ।
तस्याङ्गिरास्ततोऽत्रिरस्तस्यासन्नः पुलस्त्यश्च ॥५॥
पुलहः क्रतुरिति भगवानासन्ना अनुक्रमेण पूर्वाद्यात् ।
तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥६॥
उल्काशनिधूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः ।
हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्धयै ॥७॥
तथा च वृद्धगर्गः ।
उल्कया केतुना वापि धूमेन रजसापि वा ।
हता विवर्णाः स्वल्पा वा किरणैः परिवर्जिताः ॥
स्वं स्वं वर्गं तदा हन्युर्मुनयः सर्व एव ते ।
विपुलाः स्निग्धवर्णाश्च स्ववर्गपरिपोषकाः
गन्धर्वदेवदानवमन्त्रौषधिसिद्धयक्षनागानाम् ।
पीडाकरो मरीचिर्हतो विद्याधराणां च ॥८॥
शकयवनदरदपारतकाम्बोजांस्तापसान्वनोपेतान् ।
हन्ति वसिष्ठोऽभिहतो विवृद्धितो रश्मिसम्पन्नः ॥९॥
अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः ।
अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः ॥१०॥