सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 156, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 156

Adh. XI. Sl. 31-32. ] एकादशोऽध्यायः 137
दृश्योऽमावास्यायां कपालकेतुः मधूमरश्मिशिखः ।
प्रागभसोऽर्द्धविचारी क्षुन्मरकावृष्टिरोगकरः ॥३१॥
प्राग्वैश्वानरमार्गे शूलाग्रः श्यावरूक्षताम्राचिः ।
नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ॥३२॥
तथा च वृद्धगर्गः ।
ज्येष्ठा मूलमनूराधा या वीथी सम्प्रकीर्तिता ।
तां च वीथीं समारुह्य केतुश्चक्रीडते भृशम् ॥
दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्करीम् ।
शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् ॥
पूर्वेण चोदितश्चैष नक्षत्राण्युपधूमयेत् ।
घोरं प्रजासु सृजति फलं मासे त्रयोदशे ॥
त्रिभागं नभसो गत्वा ततो गच्छत्यदर्शनम् ।
यावतो दिवसांस्तिष्ठेत्तावद्वर्षाणि तद्भयम् ॥
बृ. सं. 18