बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 152, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XI. Sl. 20-22] एकादशोऽध्यायः 133
तथा च गर्गः ।
शुक्लाः स्निग्धाः प्रसन्नाश्च महारूपाः प्रभान्विताः ।
एकतारा वपुष्मन्तो विशिखा रश्मिभिर्वृताः ॥
एते बृहस्पतेः पुत्राः प्रायशो दक्षिणाश्रयाः ।
नामतो विकचा घोराः पञ्चषष्टिर्भयावहाः ॥
नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिक्प्रभवाः ।
बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ॥२०॥
तथा च गर्गः ।
अरुन्धतिसमा रूक्षाः केचिद्व्यक्ततारकाः ।
सपाण्डुवर्णाः श्वेताभाः सूक्ष्मा रश्मिभिरावृताः ॥
एते बुधात्मजा ज्ञेयास्तस्कराख्या भयावहाः ।
एकाधिकास्ते पञ्चाशद्व्योमपथचरा ग्रहाः ॥
क्षतजानलानुरूपास्त्रिशूलताराः कुजात्मजाः षष्टिः ।
नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः पापाः ॥२१॥
तथा च गर्गः ।
त्रिशिखाश्च त्रिताराश्च रक्ता लोहितरश्मयः ।
प्रायशश्चोत्तरामाशां सेवन्ते नित्यमेव ते ॥
लोहिताङ्गात्मजा ज्ञेया ग्रहाः षष्टिः समासतः ।
नामतः काङ्कुमा ज्ञेया राज्ञां सङ्ग्रामकारकाः ॥
त्रिंशत्त्र्यधिका राहोस्ते तामसकीलका इति ख्याताः ।
रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥२२॥