बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 149, कुल 1105 में से
संदर्भ में पढ़ें· 130 बृहत्संहितायाम् [Adh. XI. Sl. 11-13
These are the sons of the Sun 'and appear in the East
and West and indicate strifes among the sovereigns of
the country.
तथा च गर्गः ।
शुद्धस्फटिकसङ्काशमृणालरजतप्रभाः ।
मुक्ताहारसुवर्णाभाः सशिखाः पञ्चविंशतिः ॥
किरणाख्या रखेः पुत्रा दृश्यन्ते प्राग्दिशि स्थिताः ।
तथा चापरभागस्था नृपतेर्भयदाश्च ते ॥
शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः ।
आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः ॥११॥
Sloka 11.—There are as many comets born of fire
appearing in the South-east and resembling parrots, fire,
Bandhujeeva flower, lac or blood and are productive of
danger from fire.
तथा च गर्गः ।
नानावर्णाग्निसङ्काशा दीप्तिमन्तो विचूलिनः ।
सृजन्त्यग्निमिवाकाशात्सर्वे ज्यौतिषनाशनाः ॥
तेऽग्निपुत्रा ग्रहा ज्ञेया लोकेऽग्निभयवेदिनः ।
आग्नेयां दिशि दृश्यन्ते पञ्चविंशत्प्रकीर्तिताः ॥
वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च तेऽपि तावन्तः ।
दृश्यन्ते याम्यायां जनमरकावेदिनस्ते च ॥१२॥
Sloka 12.—There are as many Ketus rough and dark
with crooked crests, appearing in the South, and por-
tending pestilence to people and are the sons of Death.
तथा च गर्गः ।
कृष्णा रूक्षा वक्रशिखा दृश्यन्ते याम्यदिक्स्थिताः ।
पञ्चविंशा मृत्युसुताः प्रजाक्षयकराः स्मृताः ॥
दर्पणवृत्ताकारा विशिखाः किरणान्विता धरातनयाः ।
क्षुद्भयदा द्वाविंशतिरैशान्यमम्बुतैलनिभाः ॥१३॥