बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 103, कुल 1105 में से
संदर्भ में पढ़ें84 बृहत्संहितायाम् [Adh. VII. Sl. 12-13
उदयप्रवासादिवसैः स एव गतिलक्षणं प्राह ॥१२॥
चत्वारिंशत् त्रिंशत् द्विसमेता विंशतिर्दिनवकं च ।
नव मासार्द्धं दश चैकसंयुताः प्राकृताद्यानाम् ॥१३॥
Slokas 12-13.—The measures in days for the rising
and setting of Mercury in his seven courses are 40, 30,
22, 18, 9, 15 and 11 days respectively.
तथा च वृद्धगर्गः
चत्वारिंशत्प्राकृतायां गतावालक्ष्यते बुधः ।
मासमेकं विमिश्रायां दर्शयित्वास्तमर्हति ॥
अह्नां द्वाविंशतिं सार्द्धं सङ्क्षिप्तामेत्य लक्ष्यते ।
अष्टादशाहं तीक्ष्णायां घोरायां दश पञ्च च ॥
पापायां पादहीनानि तथैकादश तिष्ठति ।
योगाम्तिक्यामिन्दुसूनुर्नवाहं लक्ष्यते तथा ॥
चारकालो य एवोक्तः सोमपुत्रस्य भागशः ।
अस्तकालः स एव स्यात्सूर्यमण्डलचारिणः ॥
तथा च कश्यपः
चत्वारिंशत्तथा त्रिंशद्दिनानि द्वौ च विंशतिः ।
अष्टादशार्द्धमासं च दश चैकयुतानि च ॥
नव च प्राकृताद्यासु सोमजस्तूदितस्तथा ।
अस्तं गतः सर्वकालं तिष्ठतीति विनिश्चयः ॥
But the above is not approved by Varahamihira for he has said
as follows in the समाससंहिता.
प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः ।
गतयो लक्षणमासां नोदयदिवसैः स्फुटं भवति ॥
स्पष्टा पराशरमते स्वाती च प्राकृता त्रिभं याम्यात् ।
मिश्रा गतिः शशिशेखरभुजगपितृदेवतासौम्यैः ॥
सङ्क्षिप्ता नाम गतिः पुनर्वसुः फल्गुनीद्वयं पुष्यः ।
तीक्ष्णा भद्रपदायं नक्षत्रचतुष्टयं ज्येष्ठा ॥
मूलत्रयुक्तं योगा घोरा श्रवणत्रिभं च सत्वाष्ट्रम् ।
पापाख्या तु विशाखा हस्तो मैत्रं च शशिसूनोः ॥