ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 36, कुल 737 में से
संदर्भ में पढ़ें( २० )
चेति सप्तानां ग्रहाणाम् = २१, चन्द्रादीनां विमण्डलानि = ६ सर्वेषां योगश्चल-
वृत्तान्येक पञ्चाशत् सन्तीति, सिद्धान्त शेखरेऽप्येवमेवास्ति यथा-
मन्दोच्चनीचवलयानि भवन्ति सप्त शैघ्याणि पञ्च च तथा प्रतिमण्डलानि ।
दृक्क्षेप दृष्टचपमजानि च खेचराणामकं विनैव खलु षट् च विमण्डलानि ॥
पञ्चाशदेकसहितानि च मण्डलानि पूर्वापरं वलयमुत्तरदक्षिणं च ।
क्ष्माजं तथा विषुवदुद्धलयाभिधाने पञ्च स्थिराणि कथितान्युडु खेचराणाम् ॥
इति यन्त्राध्याये-
सप्तदश कालयन्त्राण्यतो धनुस्तुर्यगोलकं चक्रम् ।
यष्टिः शङ्कुर्घटिका कपालकं कर्त्तरी पीठम् ॥
सलिलं भ्रमोऽवलम्बः कर्णश्छाया दिनार्धमर्कोऽक्षः ।
नतकालज्ञानार्थं तेषां संसाधनान्यष्टौ ॥
इत्यने धनुर्यन्त्रम् । तुरीयम् । चक्रयन्त्रम् । यष्टिः, शङ्कुः, घटीयन्त्रम् ।
कपालयन्त्रम् । कर्त्तरीयन्त्रम् । पीठसंज्ञं यन्त्रम् । सलिलं (जलम्), भ्रमः (शाराः),
अवलम्बसूत्रम्, छायाकर्णः, शङ्कुच्छाया, दिनार्धमानम्, सूर्यः, अक्षः (पलांशाः)
नतकालज्ञानार्थं सप्तदश काल यन्त्राणि सन्ति, तेषां यन्त्राणां मध्ये सलिलादीन्यष्टौ
यन्त्ररचना मूलकानि सन्ति, सिद्धान्तशेखरे 'गोलश्चक्रं कार्मुकं कर्त्तरी च कालज्ञाने
यन्त्रमन्यत् कपालम् । पीठं शङ्कुः स्याद् घटी यष्टिसंज्ञं गन्त्री यन्त्राण्यत्र दिक्
सम्मितानी' त्युक्त्य १ गोलयन्त्रम्, २ चक्रयन्त्रम्, ३ धनुर्यन्त्रम् । ४ कर्त्तरी नामक-
यन्त्रम् । ५ कपाल यन्त्रम् । ६ पीठ (फलक) यन्त्रम्, ७ शङ्कुनामकयन्त्रम् ।
८ घटीनामक यन्त्रम्, ९ यष्टि यन्त्रम् । १० गन्त्री (शकट) यन्त्रम् । इति दश-
मितानि यन्त्राणि श्रीपत्युक्तानि सन्तीति । शिष्यधीवृद्धिद तन्त्रे द्वादश यन्त्रा-
ण्युक्तानि यथा-
गोलो भगणश्चक्रं धनुर्घटी शङ्कुकटककर्तर्यः ।
पीठकपालशलाका द्वादश यन्त्राणि सह यष्ट्या ॥
कर्णच्छाया द्युदलं रविरक्षो लम्बको भ्रमः सलिलम् ।
स्युर्यन्त्रसाधनानि प्रज्ञा च समुद्यमश्चैवम् ॥
भास्कराचार्येण सिद्धान्त शिरोमणौ दशैव यन्त्राण्युक्तानि । यथा-
गोलो नाडीवलयं यष्टिः शङ्कुर्घटी चक्रम् ।
चापं तुर्यं फलकं धीरेकं पारमार्थिकं यन्त्रम् ॥ इति ।