सामग्री पर जाएँ
सर्वकोश
ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

Brahmasphuta Siddhanta of Brahmagupta with Commentary

आचार्य ब्रह्मगुप्त द्वारा

DevanagariHindipublished737 पृष्ठ

पृष्ठ 34, कुल 737 में से

संदर्भ में पढ़ें
पृष्ठ 34

वलोकनात्स्फुटमस्ति । भास्करेण 'अन्त्यज्योत्पत्तौ' बहवो विशेषाः प्रतिपादिताः
सन्ति ।
स्फुटगतिवासनायां—मन्दफलसाधनेऽपि कर्णानुपातेन यत्फलं तदेव समी-
चीनमिति कर्णः कथं न कृत इत्यस्य कारणम्—
त्रिज्याभक्तः परिधिः कर्णगुणो बाहुकोटिगुणाकारः ।
असकृन्मान्दे तत्फलमाद्यसमं नात्रकर्णोऽस्मात् ॥
कथितम् । सिद्धान्तशेखरे—
त्रिज्याहृतः श्रुतिगुणः परिधिर्यतोदोः कोट्योर्गुणो मृदुफलानयनेऽसकृत्स्यात् ।
स्यान्मान्दमाद्यसममेव फलं ततश्च कर्णः कृतो न मृदुकर्मणि तन्त्रकारैः ॥
इति श्रीपत्युक्तश्लोक आचार्यो ( ब्रह्मगुप्तो )क्त श्लोकस्यानुवादरूप एव,
भास्कराचार्येणापि—
स्वल्पान्तरत्वान्मृदुकर्मणीह कर्णः कृतो नेति वदन्ति केचित् ।
त्रिज्योद्धृतः कर्णगुणः कृतेऽपि कर्णो स्फुटः स्यात्परिधिर्यतोऽत्र ॥
तेनाद्यतुल्यं फलमेति तस्मात् कर्णः कृतो नेति च केचिदूचुः ।
नाशङ्कनीयं न चले किमित्थं यतो विचित्रा फलवासनाऽत्र ॥
इह कर्णेन यत्फलमानीयते तदेव समीचीनम् । यन्मन्दकर्मणि कर्णो न
कृतस्तत्स्वल्पान्तरादिति कथ्यते । मन्दकर्मणि मन्दकर्णतुल्येन व्यासार्धेन यद्वृत्तं
तत्कक्षावृत्तम् । तेन ग्रहो गच्छति । यो मन्दपरिधिः पाठपठितः स त्रिज्यापरिगतः ।
अतोऽसौ कर्णव्यासार्धे परिणम्यते । यदि त्रिज्यावृत्तेऽयं परिधिस्तदा कर्ण-
वृत्ते क इति स्फुटपरिधिः । ततः स्वेनाहृते परिधिना भुजकोटिजीवे भांशैरित्यादिना
यत्फलमागच्छति तत्रिज्यया गुणितं कर्णेनभक्तं यल्लब्धं तत्पूर्वफलतुल्यमेव
फलमागच्छतीति ब्रह्मगुप्तमतम् । अथ यद्येवं परिधेः कर्णेन स्फुटत्वं तर्हि किं
शीघ्रकर्मणि न कृतमित्याशङ्क्य चतुर्वेदः कथयति—ब्रह्मगुप्तेनान्येषां प्रतारण-
परमिदमुक्तमिति । तदसत् । चले कर्मणीत्थं किं न कृतमिति नाशङ्कनीयम् ।
यतः फलवासना विचित्राऽस्तीति । अन्यत्सर्वं पूर्वकथितमेवेति ।
ग्रहणवासनायां—छादकनिर्णयं कृत्वा राहुकृतं ग्रहणं न भवतीति वराह-
मिहिरादीनां मतं प्रतिपाद्य संहितामतमवलम्ब्य तन्निराकृतम् ।
राहुकृतं ग्रहणद्वयमागोपालाङ्गनादि सिद्धमिदम् ।
बहुफलमिदमपि सिद्धं जपहोमस्नानफलमत्र ॥