ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 19, कुल 737 में से
संदर्भ में पढ़ेंपृथिव्याश्चलत्वं भगणानां स्थिरत्वं स्वीकृत्य—अहोरात्रासुभिः स्वाक्षो-
परि पृथिव्या भ्रमणं मन्यते आर्यभटेनेति—आवर्तनमुर्व्यश्चेदित्याद्युक्तिः। अन्यत्रा-
नेका अत्युक्तयो दुराग्रहवशात् कुत्रचिद्वाग्बलेन कथिता ब्रह्मगुप्तेन यथा—
स्वयमेव नाम यत्कृतमार्यभटेन स्फुटं स्वगणितस्य ।
सिद्धं तदस्फुटत्वं ग्रहणादीनां विसंवादात् ॥
जानात्येकमपि यतो नार्यभटो गणितकालगोलानाम् ।
न मया प्रोक्तानि ततः पृथक् पृथक् दूषणान्येषाम् ॥
आर्यभटदूषणानां संख्या वक्तुं न शक्यते यस्मात् ।
तस्मादयमुद्देशो बुद्धिमताऽन्यानि योज्यानि ॥
स्वयं ग्रहग्रहणादिवेधकर्त्ता ब्रह्मगुप्तः प्राचीनाचार्येभ्योऽनेकान् विशिष्टान्
ग्रहादिसाधनविधीन् गणितसत्यासत्यपरीक्षार्थं वेधविधींश्च स्वग्रन्थे प्रौढोक्त्या
प्रतिपादयति —
ज्ञातं कृत्वा मध्यं भूयोऽन्यदिने तदन्तरं भुक्तिः ।
त्रैराशिकेन भुक्त्या कल्पग्रहमण्डलानयनम् ॥
यदि भिन्नाः सिद्धान्ता भास्करसंक्रान्तयोऽपि भेदसमाः ।
स स्पष्टः पूर्वस्यां विषुवत्यर्कोदयो यस्य ॥
इत्यादिना वास्तवविचारासक्तः सर्वप्रथमं सर्वतो विशिष्टं विवेचनाबहुलं
सिद्धान्तग्रन्थं ब्रह्मगुप्त एव रचितवानित्युपलब्धज्योतिषसिद्धान्तग्रन्थेभ्यो ज्ञायते ।
‘कृती जयति जिष्णुजो गणकचक्रचूडामणि’ रितिस्वसिद्धान्तशिरोमणेर्गणिता-
ध्यायारम्भे भास्कराचार्येण ब्रह्मगुप्तमभिवन्द्य तत्परमपि बहुत्रस्थले ब्रह्मगुप्त-
मतोल्लेखं कुर्वताऽपि ‘यथाऽत्रग्रन्थे ब्रह्मगुप्तस्वीकृतागमोऽङ्गीकृत’ इत्युक्त्या
तद्ग्रन्थानुसारी ग्रन्थो रचित इति प्रतीयते । ब्रह्मगुप्तेनायनचलनं नोपलब्धमिति
ब्रह्मस्फुटसिद्धान्ततो ज्ञायते । अयनचलनोपलब्धिः प्रत्युत खण्डितेति दृश्यते
यथा—
परमल्पामिथुनान्ते युरात्रिनाड्योऽर्कगतिवशाहतवः ।
नायनयुगमयनवशात् स्थिरमयनद्वितयमपि तस्मात् ॥
वराहमिहिरोऽयनचलनसम्बन्धे सन्दिहान आसीदिति ‘नूनं कदाचिदासी-
द्येनोक्तं पूर्वशास्त्रेषु’ इति तत्कथनेन ज्ञायते । तत्समयेऽश्विन्यादौ क्रान्तिपात
आसीदित्यश्विन्यादि नक्षत्रगणना प्रवृत्ता सैव ब्रह्मगुप्तात्परमद्यावधि प्रचलति ।