सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 83, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 83

अहो भाग्यं नरेन्द्रस्य जनकस्य यदालये ।
प्रमोदवनतोऽभ्येत्य परा लक्ष्मीर्विराजते ॥ २५ ॥
किं भाग्यं मिथिलापुरीगृहजुषां भावोद्धुराणां नृणां
येषां दृष्टिपथं प्रयाति सुषमा लोकोत्तरं तावकी ।
ब्रह्माद्यैरपि वा स्मृता क्षणमपि स्वाराज्यलक्ष्मीमदं
दूरीकृत्य तनौ तनोति पुलकान् प्रेमाङ्कुरं चेतसि ॥ २६ ॥
अद्यापि त्वं प्रमुदविपिने क्रीडसि स्वैर्विलासै
स्तेनैवाविर्भवसि वपुषा दृश्यसेऽत्रापि चैवम् ।
कुन्दारण्ये कलयसितरां चैव लीलां विशालां
तेनैवासि श्रुतिषु गदिता व्यापिका ब्रह्मरूपा ॥ २७ ॥
अहो ईदृशी श्रीरिहाभून्नपूर्वं स्फुटं याजनि व्यक्तमेवावतारे ।
पुरे चापि देशे वने वीथिकासु प्रभाते यथा सूर्यरोचिःप्रसंगात् ॥ २८ ॥
तमो विनष्टं सकलभवेऽस्मिन् प्रफुल्लतां मानसपङ्कजानि ।
सातामगुः संप्रति तद्द्रुहां च शिरोऽवतंसान्यपतन् पृथिव्याम् ॥ २९ ॥
आब्रह्मलोकं जगदेतदद्धा प्रसन्नतां यन्नितरां जगाम ।
तेनैव भावानि सुमङ्गलानि महानुभावैर्विदितानि लोके ॥ ३० ॥
जय जय जाह्नवीविमलकीर्तिकदम्बरी जय जय सज्जनावलिमनोज्ञशुभाचरिता ।
जय जय भावनामयसुमङ्गलादिव्यतनो जय जय जानकीत्वममिताद्भुतमाङ्गलिके ॥३१॥
पाहि पाहि जगत्सवं रमय स्वामिकं निजम् ।
श्रीरामं चिद्घनानन्दं लीला विस्तारयामुना ॥ ३२ ॥
यथा पूर्वं रमयसि प्रमोदविपिनान्तरे ।
तथाधुनापि रमय रामचन्द्रं रमापतिम् ॥ ३३ ॥
प्रमोदविपिने यस्ते लीलापरिकरोऽखिलः ।
अधुनापि स एवात्र जायतां मनसो मुदे ॥ ३४ ॥
एवं स्तुत्वा निष्कृतिर्देवतात्मा तस्या अग्रेन्यपतद्दण्डवत्सः ।
भूयो भूयस्तनुसंजातरोमा नत्वानत्वाहृदि हर्षं चकार ॥ ३५ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोत्सवे निष्कृतिंकृतस्तुतिर्नाम त्रयोविंशोऽध्यायः ॥ २३ ॥