सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 74, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 74
  • ६० -
    अचिन्त्यरूपा करुणा भवत्याः शक्ता समुद्धर्तुमुदेतिजीवान् ।
    नो चेत्कथं दुस्तरमोहजालं विभिद्य पारं परमं प्रयान्ति ॥ १२ ॥
    पितामहो यद्वितनोतिविश्वं रक्षन् हरिर्द्वावयते च दैत्यान् ।
    अहं तथा संहरणं करोमि तदेतदाभाति भवत्प्रसाद ॥ १३ ॥
    यतोऽभवद्वाङ्मनसं निवृत्तं यदाप्यनावाप्यमिहास्ति किंचित् ।
    यदेव सर्वैर्मुनिभिर्गृहीतं तदेव रूपं परमं भवत्याः ॥ १४ ॥
    अनन्तशक्तिप्रभवप्रभावमनन्तसंख्याकापुमर्थमूलम् ।
    अनन्तकालक्षपणाक्षयं ते विचेष्टितं मे हृदये चकास्तु ॥ १५ ॥
    तडिल्लतावच्च सुवर्णवर्णं रामाभ्रसम्पर्कसदामनोज्ञम् ।
    ध्यातं न यैस्ते जनर्न स्वरूपं तेषां भवेऽस्मिन् जनुरेव मोघम् ॥ १६ ॥
    तावन्मुखे जाड्यमुदेति भूयस्तावद्दरिद्रो भवतीह लोकः ।
    तवन्न कान्तिप्रसरोऽस्मिन् देहे यावन्न तेऽजायत दृष्टिपातः ॥ १७ ॥
    अधिप्रमोदाटविकुञ्ज मध्ये श्रीरामयोगेन सदा स्फुरन्ती ।
    इन्दीवरश्याममलोचनां त्वां सम्पत्तिसंवित्तिकृते भजामि ॥ १८ ॥
    यद्वाग्भवं नाम निरूढबीजं परात्मकं वेदसमूलमूलम् ।
    तत्तद्वपुः संनिहितं समस्ततन्त्रेषु मन्त्रात्मतया भजामि ॥ १९ ॥
    कदाचिदुन्मीलितमानभावोन्नते भ्रुवौ मन्मथचापचारू ।
    श्रीरामचन्द्रेकरसीन्द्रभाव्ये भजामि ते मुक्तकृपाकटाक्षे ॥ २० ॥
    वेदान्तवाक्येषु निगूढमुच्चैर्यत्तत्परं ब्रह्म चिदेकमात्रम् ।
    तस्यापि चेत्थं परमाप्रतिष्ठा तदा कथं वाग्विषयत्वमेषि ॥ २१ ॥
    नित्ये महिम्नि प्रथितप्रतिष्ठा त्वेके महागाथगुणैकजुष्टा ।
    अगोचरा ब्रह्मशिवादिभिस्त्वमधिप्रमोदाटवि दृश्यसे वै ॥ २२ ॥
    कदापि पञ्चत्वमियाद्विरंचिस्तथा विरामं भजते रमेशः ।
    भजाम्यहं चैव विनाशभाव तदा त्वमीशः स्वयमेव चासि ॥ २३ ॥
    त्वदङ्घ्रिपङ्केरुहगर्भधूली त्रिवेदमल्लीसुमनोमधूलीम् ।
    विचिन्वतां ज्ञानयथेष्वगम्यामधिप्रमोदाटवि किं न लप्स्ये ॥ २४ ॥
    वेदान्तविज्ञानविनिश्चिताथैर्योगेन कष्टेन गृहीतमन्यैः ।
    तत्त्वस्वरूपं प्रमुदाटवीनामाभीरकन्याभिरहो सुखापम् ॥ २५ ॥
    यथाकथंचिद्विषयैर्विमुक्ता नृणां मनोवृत्तिरुदीर्णरूपा ।
    त्वामप्रमेयामविलभ्य सीते कदर्थनीया किमु मुक्तिमार्गे ॥ २६ ॥
    ये स्वाश्रयां च प्रवदन्ति मुक्तिं तेषामहंभाविनष्टमात्रा ।
    ब्रह्मास्तिरूपाखलु चित्तवृत्तिरत्यर्थमेवप्रतिभाति मोघा ॥ २७ ॥