भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
पृष्ठ 396, कुल 423 में से
संदर्भ में पढ़ें– ३८३ –
भीता भवाब्धितवितोर्मिभिरत्यनल्पैर्नान्यत्र सुस्थमनसो मनुजा भवन्ति ।
एकं विहाय भगवन्तमृते भवन्तं मां पाहि सम्प्रति गतं चरणाब्जमूले ॥ २९ ॥
कालोऽयमग्रकलनः कलयत्यनल्पां शक्तिं जगत्सु खलु भूरिभयातुरेषु ।
न त्वाश्रितेषु भवतश्चिरमङ्घ्रिपद्मं मां पाहि सम्प्रति गतं चरणाब्जमूले ॥३०॥
त्वामाश्रिता गतभयाः शरणागतैक श्रीवज्रपंजरविभो करुणैककन्द ।
खेलन्ति कालशिरसि स्वपदं निधाय मां पाहि सम्प्रति गतं चरणाब्जमूले ॥३१॥
मुग्धा भवन्ति बहुजल्पितमागमं ये संलब्धये तव मुहुर्मृगयन्ति विप्राः ।
न त्वां स्पृशन्ति निजभक्ति कलैकलाभम्मां पाहि सम्प्रति गतं चरणाब्जमूले ॥३२॥
दीनं तथातुरमनेकभवोर्मिनष्टप्रज्ञं व्यतीतकुशलं बहुदुःखमग्नम् ।
मूढं विशालविषयावलिकृष्टचित्तं मां पाहि सम्प्रति गतं चरणाब्जमूले ॥ ३३ ॥
स्तब्धंकदाप्यकृतसत्परिचर्यमुग्रबुद्धिं निजात्महतिजातकदर्थनं च ।
व्यर्थव्यतीतजनुरायुषमात्रदोषं मां पाहि सम्प्रति गतं चरणाब्जमूले ॥ ३४ ॥
उच्चैरबद्धबहु जल्पनशीलमन्तः कामावसन्नमनुदीरितनामजाप्यम् ।
पापं समस्तविपरीतकरं कुशीलं मां पाहि सम्प्रति गतं चरणाब्जमूले ॥ ३५ ॥
नामोद्धृताखिलजगज्जनसौख्यदायी स्वानन्दसिन्धुलहरीपरियोजितस्वः ।
अत्युन्नतस्वविभवोचित भव्यकारी मां पाहि सम्प्रति गतं चरणाब्जमूले ॥३६॥
आयुः प्रयाति विफलं सकलेष्टदायि स्तत्ते स्मृतिं विदधतो मनुजस्य नित्यम् ।
साफल्यमेति जगतीति विचिन्त्य सन्तं मां पाहि सम्प्रपि गतं चरणाब्जमूले ॥३७॥
ब्रह्मोवाच
एव कृत्वा स्तुतिं भूयः खिंगो नामान्त्यजः प्रभोः ।
तस्थौ कृताञ्जलिर्दीनो विफलीभूतलोचनः ॥ ३८ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डेऽन्त्यजस्तुतिर्नामाष्ट-
चत्वारिंशोऽध्यायः ॥ ४८ ॥
✤
एकोनपञ्चाशत्तमोऽध्यायः
ब्रह्मोवाच
ततः स लोचनं लेभे रामभक्तिप्रभावतः ।
संजातलोचनोऽथाग्रे ददर्श पुरुषं परम् ॥ १ ॥