सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 211, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 211
  • १९७ -
    आविर्भावान्तराण्यस्य बैकुण्ठादीनि राजिनि ।
    वैकुण्ठं चापि गोलोको मथुरा द्वारकापि च ॥ ९ ॥
    ध्रुवस्थानं ध्रुवोर्मध्यं सूर्यमण्डलमेव च ।
    श्रीमद्वृन्दावनं धाम सर्वमेतत्प्रभात्मकम् ॥ १० ॥
    इदं हि सहजं धाम परं ब्रह्ममयं स्फुटम् ।
    सहजायाश्च रामस्य रसलीलाविलासभूः ॥ ११ ॥
    एतत्स्थानमधिष्ठाय सहजानन्दिनी स्वयम् ।
    रमतेऽप्राकृतैर्भावैर्भाविभुक्तिचिदात्मिका ॥ १२ ॥
    अस्याः सेवनमात्रेण निर्बन्धो जायते नृणाम् ।
    न मन्त्रो नापि चैवार्चा न जपो न तपस्तथा ॥ १३ ॥
    प्रेमसेवामपेक्ष्यैषा मोचयेद्भवबन्धनात् ।
    इयं निःसाधना मुक्तिर्मया तुभ्यं निगद्यते ॥ १४ ॥
    नामैवास्याः कोटितीर्थस्वधिक गोपभामिनि ।
    ध्यानमस्याः प्रवक्ष्यामि यज्ज्ञात्वा मुच्यते जनः ॥ १५ ॥
    भावयेच्चित्तकमले प्रमोदवनमद्भुतम् ।
    विपुलं सच्चिदानन्दं कोटिकल्पद्रुमाश्रितम् ॥ १६ ॥
    हेममारकतीं भूमिं रत्नाङ्गणसुविस्तराम् ।
    अनेककोटिसूर्येन्दुप्रकाशां मण्डलाकृतिम् ॥ १७ ॥
    वनानि तत्रभास्वन्ति वल्लीतरुमयान्यहो ।
    कल्पद्रुमा यत्र लता यत्र कल्पलताः शुभाः ॥ १८ ॥
    हेमदण्डमयाः स्तम्भा विटपा रत्नविस्तराः ।
    हरिन्मणिमयाः पर्णाः कोटिरत्न प्रसूनिनः ॥ १९ ॥
    अमिताः फलसंदोहाः सद्यः स्वादामृतोपमाः ।
    अगोचरो रसो येषां मोक्षानन्दरसाधिकः ॥ २० ॥
    तद्रसामृतसम्पृक्तां सुरसां सरयूमिह ।
    ज्योत्स्नावर्णप्रवाहाढ्यां मुक्तामाणिक्यकूलिनीम् ॥ २१ ॥
    राजहंसकुलच्छन्नां कह्लारोत्पलगन्धिनीम् ।
    स्नास्यद्गोपिगणाकीर्णरत्ननिःश्रेणिशोभिताम् ॥ २२ ॥
    सिद्धचारणगन्धर्वस्नानकालसुखप्रदाम् ।
    सुवर्णपङ्कजाकीर्णा गोपराजप्रपूजिताम् ॥ २३ ॥
    तत्कूलयोरुभययोः कुञ्जपुञ्जसुमञ्जुलम् ।
    प्रमोदविपिनं ध्यायेद्रत्नपर्वतशोभितम् ॥ २४ ॥