सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 205, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 205
  • १९१ -
    तां वीक्ष्य कृष्णां सहजां मनोज्ञां सलीलसर्वावयवाढ्यरूपाम् ।
    विचित्रकेलीभिरदृष्टपूर्वां पप्रच्छमन्दस्मितरञ्जितोष्ठी ॥ २० ॥
    कासि त्वमम्भोजदलायताक्षी साक्षाद्रतिस्पर्द्धस एव दीनाम् ।
    तवैव रूपेण विचित्रिता मे सखीसमात्यन्तविचक्षणापि ॥ २१ ॥
    सोवाच मन्दस्मितशोभितास्या गोपालकन्याहमिह प्रसिद्धा ।
    व्रजे खलु श्रीसुखितेन्द्रगेहे वसामि सर्वर्द्धिसमूहयुक्ते ॥ २२ ॥
    इच्छाम्यहं दीर्घदृशा त्वयैकं सख्यं सखीवृन्दसमन्वितापि ।
    तत्त्वामुपेतास्मि सखी वयस्यां गृहाण मां सादरमिन्दुवक्त्रे ॥ २३ ॥
    इतीङ्गिता सापि तया सुसख्या प्रत्यग्रहीत्तां समरूपवेशाम् ।
    तस्यास्ततोंऽसे स्वभुजं निधाय वनान्तरे सातिचचार तत्र ॥ २४ ॥
    कृष्णा सखी त्वं मम हृद्यरूपा त्वां वीक्ष्य यातास्मि यथाभिलाषम् ।
    तथैव धात्रा विहितं च सख्यं सदैव नौ चात्र प्रमुद्वनेऽस्मिन् ॥ २५ ॥
    एकं तु विज्ञाप्यमतीव मे त्वयि ग्रामं न यामः सुखितस्य सम्प्रति ।
    त्वामन्नवस्त्राञ्जनलेपनक्रियाविभूषणैः स्वे गृह एव सेव्ये ॥ २६ ॥
    कृष्णोवाच
    समागमो नौ वन एव संगतो न चान्यथा नागरिनन्दनालये ।
    केयं कुतो वेति विमर्शिता पुनः स्थास्याम्यहं तत्र कथं नु सुन्दरि ॥ २७ ॥
    सहजोवाच
    एवं चेद्वन एवात्र दर्शनं दास्यसि प्रिये ।
    यथा न नौ विप्रयोगो भवेत्क्वापि कलावति ॥ २८ ॥
    श्रीशुक उवाच
    इत्थं विरच्य सत्यानि तया श्रीसहजाह्वया ।
    वनान्निवृते कृत्वा पुष्पावचयनक्रियाम् ॥ २९ ॥
    कृष्णा सखी ददौ तस्यै निजरत्नाङ्गुलीयकम् ।
    यस्य धारणमात्रेण वियोगो नैव बाधते ॥ ३० ॥
    सापि कृष्णा नाम सखी पालीग्रामस्य पार्श्वतः ।
    ययौ सहजया सार्द्धमग्रेऽन्तर्द्धिमगात्ततः ॥ ३१ ॥
    तद्वीक्ष्य सर्वधात्रीणामभूच्चेतसि विस्मयः ।
    गवेषयन्त्योऽपि च तां समंतान्नैववलेभिरे ॥ ३२ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये-
    श्रीशुकजनकसंवादे सहजोपाख्यानेषष्टितमोऽध्यायः ॥ ६० ॥