भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
इस ग्रन्थ के बारे में
भामती अद्वैत वेदान्त का एक आधारभूत टीका-ग्रन्थ है। नवीं-दसवीं शताब्दी के मैथिल आचार्य वाचस्पति मिश्र ने इसे बादरायण के ब्रह्मसूत्र पर शंकराचार्य के शारीरक-मीमांसा-भाष्य की व्याख्या के रूप में लिखा। परम्परा के अनुसार इसका नाम उनकी पत्नी भामती के नाम पर पड़ा। इसी टीका से अद्वैत की 'भामती-प्रस्थान' नामक धारा चली, जो अविद्या के आश्रय और विषय जैसे प्रश्नों पर विवरण-प्रस्थान से भिन्न मत रखती है।
यह खण्ड ब्रह्मसूत्र के आरम्भिक भाग पर केन्द्रित है, जिसे चतुःसूत्री कहा जाता है: 'अथातो ब्रह्मजिज्ञासा', 'जन्माद्यस्य यतः', 'शास्त्रयोनित्वात्' और 'तत्तु समन्वयात्'। शंकर का अध्यास-भाष्य और इन चार सूत्रों का भाष्य पूरे अद्वैत दर्शन की नींव माने जाते हैं, इसलिए वेदान्त के अध्येता सबसे अधिक परिश्रम इन्हीं पर करते हैं।
इस संस्करण में सूत्र, शाङ्करभाष्य, भामती और स्वामी ऋषिराम के शिष्य उदासीन संन्यासी स्वामी योगीन्द्रानन्द की विस्तृत हिन्दी 'भामती-व्याख्या' एक साथ हैं। यह चौखम्बा विद्याभवन, वाराणसी की विद्याभवन प्राच्यविद्या ग्रन्थमाला (क्रमांक १२) का प्रथम भाग है, जिसका यह स्कैन 2005 के संस्करण का है और 639 पृष्ठों का है।
| ६४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १ |
|---|
भामती
तानामपि कर्मणां संयोगपृथक्त्वेन ब्रह्मभावनां प्रत्यङ्गभावमाचक्षते, क्रत्वर्थस्येव खादिरत्वस्य वीर्य्यार्थताम्, एकस्य तूभयार्थत्वे संयोगपृथक्त्वमिति न्यायात् । अत एव पारमर्षं सूत्रम्- 'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इति । यज्ञतपोदानादि सर्वं तदपेक्षा ब्रह्मभावनेत्यर्थः । तस्माद्यदि श्रुत्यादयः प्रमाणं यदि वा पारमर्षं सूत्रं सर्वथा यज्ञादिकर्मसमुच्चिता ब्रह्मोपासना विशेषणत्रयवत्यनाद्यविद्यातद्वासनासमुच्छेदक्रमेण ब्रह्मसाक्षात्काराया मोक्षापरनाम्ने कल्पत इति तदर्थं कर्माण्यनुष्ठेयानि । न चैतानि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंआनन्तर्यार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ६५
भामती
वपरिज्ञानं विना शक्यान्वनुष्ठातुम्। न च धर्ममीमांसापरिशीलनं विना तत्परिज्ञानम्। तस्मात् साधूक्तं 'कर्मावबोधानन्तर्यं विशेषः' इति। कर्मावबोधेन हि कर्मानुष्ठानसाहित्यं भवति ब्रह्मोपासनाया इत्यर्थः।
तदेतन्निराकरोति ॐ न ॐ। कुतः ? ॐ कर्मावबोधात् प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः ॐ। इदमत्राकूतम्—ब्रह्मोपासनया भावनापराभिधानया कर्माप्यपेक्ष्यन्त इत्युक्तं, तत्र ब्रूमः—क्व पुनरस्याः कर्मापेक्षा ? किं कार्ये, यथाऽऽग्नेयादीनां परमापूर्वं चरमभाविफलानुकूले जनयितव्ये समिदाद्यपेक्षा ? स्वरूपे वा, यथा तेषामेव द्विरवत्तपुरोडाशाद्विद्व्यग्निदेवताद्यपेक्षा ? न तावत् कार्ये, तस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. १
भामती
तत्साक्षात्कारस्य तत्स्वभाव्येन नित्यतयोत्पाद्यत्वानुपपत्तेः । ततो भिन्नस्य वा भावनाधेयस्य साक्षात्कारस्य प्रतिभासप्रत्ययवत्संशयाक्रान्ततया प्रामाण्यायोगात् । तद्विषयस्य तत्सामग्रीकस्यैव बहुलं व्यभिचारोपलब्धेः । न खल्वनुमानविबुद्धं वह्निं भावयतः शीतातुरस्य शिशिरभरमन्थरतरकायकाण्डस्य स्फुरज्ज्यालाजटिलानलसाक्षात्कारः प्रमाणान्तरेण संवाद्यते, विसंवादस्य बहुलमुपलम्भात् । तस्मात् प्रामाणिकसाक्षात्कारलक्षणकार्याभावान्नोपासनाया उत्पाद्ये कर्मापेक्षा । न च कूटस्थनित्यस्य सर्वव्यापिनो ब्रह्मण उपासनातो विकारसंस्कारप्राप्तयः सम्भवन्ति । स्यादेतत्—मा भूद् ब्रह्मसाक्षात्कार
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंआनन्तर्यार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ६७
भामती
सन्ततिः ? यदि शाब्दज्ञानमात्रसन्ततिः, किमियमभ्यस्यमानाप्यविद्यां समुच्छेत्तुमर्हति ? तत्त्वविनिश्चय-
स्तदभ्यासो वा सवासनं विपर्ययसमुन्मूलयेत्, न संशयाभ्यासः, सामान्यमात्रदर्शनाभ्यासो वा। नहि
स्थाणुर्वा पुरुषो वेति वाऽऽरोहपरिणाहवद्द्रव्यमिति वा शतशोऽपि ज्ञानमभ्यस्यमानं पुरुष एवेति निश्च-
याय पर्याप्नुमृते विशेषदर्शनात् । ननूक्तं श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा युक्तिमयेन
च व्यवस्थाप्यत इति । तस्मान्निर्विकित्सशाब्दज्ञानसन्ततिरुपासना कर्मसहकारिण्यविद्याद्वयोच्छेद-
हेतुः । न चासावनुत्पादितब्रह्मानुभवा तदुच्छेदाय पर्याप्ता । साक्षात्काररूपो हि विपर्यासः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ६८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १ |
|---|
भामती
चैतावता ब्रह्मणो नापराधीनप्रकाशता । नहि शब्दज्ञानप्रकाश्यं ब्रह्म स्वयंप्रकाशं न भवति । सर्वोपाधिरहितं हि स्वयंज्योतिरिति गीयते, न तूपहितमपि । यथाहु स्म भगवान् भाष्यकारः ॐ नायमेकान्तेनाविषयः इति ॐ । न चान्तःकरणवृत्तावध्यस्य साक्षात्कारे सर्वोपाधिविनिर्मोकः । तस्यैव तदुपाधेर्विनश्यदवस्थस्य स्वपरोपाधिविरोधिनो विद्यमानत्वात् । अन्यथा चैतन्यच्छायापत्तिं विनाऽन्तःकरणवृत्तेः स्वयमचेतनायाः स्वप्रकाशत्वानुपपत्तौ साक्षात्कारत्वायोगात् । न चानुमितभावितवह्निशाक्षात्कारवत्प्रतिभासत्वेनास्याप्रामाण्यं, तत्र वह्नित्वलक्षणस्य परोक्षत्वात् , इह तु ब्रह्मरूपस्योपाधिकलुषीतस्य जीवस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंआनन्तर्यार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ६९
भामती
बुद्धोदासीनस्वभावमकत्त्र्त्वाद्युपेतमपेतब्राह्मणत्त्वादिजातिं देहाद्यतिरिक्तमेकमात्मानं प्रतिपद्यमानः कर्मस्वधिकारमवबोद्धुमर्हति । अनहंज्ञः कथं कर्त्ता वाऽधिकृतो वा ? यद्युच्येत निश्चितेऽपि तत्त्वे विपर्यासनिबन्धनो व्यवहारोऽनुवर्त्तमानो दृश्यते, यथा गुडस्य माधुर्य्यविनिश्चयेऽपि पित्तोपहतेन्द्रियाणां तिक्तावभासानुवृत्तिः, आस्वाद्य थूत्कृत्य त्यागात् । तस्मादविद्यासंस्कारानुवृत्त्या कर्मानुष्ठानं, तेन च विद्यासहकारिणा तत्समुच्छेद उपपत्स्यते । न च कर्माविद्यात्मकं कथमविद्यामुच्छिनत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेद इति वाच्यम्, सजातीयस्वपरविरोधिनां भावानां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १ |
|---|
भामती
मानी विद्वान्न श्रद्धत्ते पित्तोपहतेन्द्रिय इव गुडं थूत्कृत्य त्यजन्नपि तस्य तिक्तताम्। तथा चायं क्रिया-कर्तृकरणेतिकर्त्तव्यताफलप्रपञ्चमतात्त्विकं विनिश्चिन्वन् कथमधिकृतो नाम ? विदुषो ह्यधिकारोऽन्यथा पशु-शूद्रादीनामप्यधिकारो दुर्वारः स्यात्। क्रियाकर्त्रादिस्वरूपविभागं च विद्वस्यमान इह विद्वानभिमतः कर्म-काण्डे। अत एव भगवानविद्वद्विषयत्वं शास्त्रस्य वर्णयाम्बभूव भाष्यकारः। तस्माद्यथा राजजातीयाभि-मानकर्त्तृके राजसूये न विप्रवैश्यजातीयाभिमानिनोरधिकारः, एवं द्विजातिकर्त्तृक्रियाकरणादिविभा-गाभिमानिकर्त्तृके कर्मणि न तदनभिमानिनोऽधिकारः। न चानधिकृतेन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंआनन्तर्यार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ७१
भामती
निषिद्धमनुतिष्ठन् न प्रत्यवेयात् तिर्यगादिवदिति भिन्नकर्मतापातः । मैवम्, न खल्वयं सर्वथा मनुष्या-
भिमानरहितः, किं त्वविद्यासंस्कारानुवृत्त्याऽस्य मात्रया तदभिमानोऽनुवर्त्तते । अनुवर्त्तमानं च मिथ्येति
मन्यमानो न श्रद्धत्त इत्युक्तम् । किमतो यद्येवम् ? एतदतो भवति—विधिषु श्राद्धोऽधिकारी नाश्राद्धः ।
ततश्च मनुष्याद्यभिमाने नाशद्दधानो न विधिशास्त्रेणाधिक्रियते । तथा च स्मृतिरश्रद्धया हुतं दत्तमित्या-
दिका । निषेधशास्त्रं तु न श्रद्धामपेक्षते, अपि तु निषिध्यमानक्रियोन्मुखो नर इत्येव प्रवर्त्तते । तथा च
सांसारिक इव श्रद्धावगतब्रह्मतत्त्वोऽपि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १ |
|---|
भामती
र्थतया शब्दतो गुणत्वादिच्छायाश्च प्रत्ययार्थतया प्राधान्यात्। प्रधानेन च कार्यसम्प्रत्ययात्। नहि राजपुरुषमानयेत्युक्ते वस्तुतः प्रधानमपि राजा पुरुषविशेषणतया शब्दत उपसर्जनमानीयतेऽपि तु पुरुष एव। शब्दतस्तस्य प्राधान्यात्। एवं वेदानुवचनस्येव यज्ञस्यापीच्छासाधनतया विधानम्। एवं तपसोऽ-नाशकस्य, कामानशनमेव तपः, हितमितमेध्याशिनो हि ब्रह्मणि विविदिषा भवति, न तु सर्वथाऽनश्नतो, मरणात्। नापि चान्द्रायणादितपःशीलस्य, धातुवैषम्यापत्तेः। एतानि च नित्यान्युपात्तदुरितनिबर्हणेन पुरुषं संस्कुर्वन्ति। तथा च श्रुतिः—"स ह वा आत्मयाजी यो वेद इदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽने-नाङ्गमपचीयते” इति। अनेनेति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंआनन्तर्यार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ७३
भामती
चित्तसत्त्वं मलिनयति, अतः पापनिवृत्तौ प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्या-
नित्याशुचिदुःखरूपतामप्रत्यवहमवबुध्यते, ततोऽस्यास्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते, ततस्तज्जिहासोपा-
वर्त्तते, ततो हानोपायं पर्य्येषते, पर्य्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इत्युपश्रुत्य तज्जिज्ञासते, ततः श्रवणा-
दिक्रमेण तज्जानातीत्यारादुपकारकत्वं तत्त्वज्ञानोत्पादं प्रति चित्तसत्त्वशुद्ध्या कर्मणां युक्तम्। इममेवार्थम-
नुवदति भगवद्गीता—
"आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते ॥"
एवं चाननुष्ठितकर्मापि प्राग्भवीयकर्मवशाद्यो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १ |
|---|
भामती
तदपाकरणार्थं कर्मानुतिष्ठेत् । एतदनुरोधाच्च 'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवान् जायते' इति गृहस्थः सम्पद्यमान इति व्याख्येयम् । अन्यथा 'यदि वेतरथा ब्रह्मचर्यादेव' इति श्रुतिर्विरुध्येत । गृहस्थस्यापि च ऋणापाकरणं सत्त्वशुद्ध्यर्थमेव । जरामर्यवादो भस्मान्ततावादोऽन्त्येष्ट्यश्च कर्मजडानविदुषः प्रति, न स्वात्मतत्त्वपण्डितान् । तस्मात्तस्यानन्तर्यमथशब्दार्थो यद्विना ब्रह्मजिज्ञासा न भवति यस्मिंस्तु सति भवन्ती भवत्येव । न चेत्थं कर्मावबोधः । तस्मान्न कर्मावबोधानन्तर्यमथशब्दार्थ इति सर्वमवदातम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंआनन्तर्यार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ७५
जिज्ञासोपपत्तेः । यथा च हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात्
भामती
'वनी भूत्वा प्रव्रजेद्' इति जाबालश्रुतिर्गाहस्थ्येन हि यज्ञाद्यनुष्ठानं सूचयति । स्मरन्ति च—
“अधीत्य विधिवद् वेदान् पुत्रांश्चोत्पाद्य धर्मतः ।
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥”
निन्दन्ति च—
"अनधीत्य द्विजो वेदाननुत्पाद्य तथात्मजान् ।
अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ॥” इति ।
इत्यत आह ॐ यथा च हृदयाद्यवदानानामानन्तर्यनियमः ॐ । कुतः **'हृदयस्याग्रेऽवद्यति अथ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १ |
|---|
भामती
तथैवानियमप्रदर्शनात्— "यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद्वा वनाद् वा" इति। एतावता हि वैराग्यमुपलक्षयति। अत एव "यदहरेव विरजेत्तदहरेव प्रव्रजेत्" इति श्रुतिः। निन्दावचनं चाविशुद्धसत्त्वपुरुषाभिप्रायम्। अविशुद्धसत्त्वो हि मोक्षमिच्छन्नालस्यात्तदुपायेष्वप्रवर्त्तमानो गृहस्थधर्ममपि नित्यनैमित्तिकमनाचरन् प्रतिक्षणमुपचीयमानपाप्माऽधोगतिं गच्छतीत्यर्थः।
स्यादेतत्— मा भूच्छ्रौत आर्थो वा क्रमः, पाठस्थानमुख्यप्रवृत्तिप्रमाणकस्तु कस्मान्न भवतीत्यत
भामती-व्याख्या
भाव विवक्षित नहीं, अन्यथा "यदि वेतरथा ब्रह्मचर्यादेव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंआनन्तर्यार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ७७
तथेह क्रमो विवक्षितः, शेषशेषित्वेऽधिकृताधिकारे वा प्रमाणाभावात् , धर्मग्रह-
भामती
आह ॐ शेषशेषित्वे प्रमाणाभावात् ॐ । शेषाणां समिदादीनां शेषिणाम्नाग्नेयादीनामेकफलवदुपकारोप-
निबद्धानामेकफलावच्छिन्नानामेकप्रयोगवचनोपगृहीतानामेकाधिकारिकर्तृकाणामेकपौर्णमास्यमावास्याकाल-
भामती-व्याख्या
पशु-याग का स्थान माना जाता है, अतः 'स्थान' प्रमाण के आधार पर सवनीय पशु, उसके पश्चात् अग्नीषोमीय और अन्त में आनुबन्ध्य पशु का अनुष्ठान किया जाता है—"सौत्येऽहनि अग्नीषोमीयसवनीयानुबन्ध्यान् पशून् क्रमेण सहैव ( तन्त्रेण ) सवनीयकाले आलभेत ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ७८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १ |
|---|
भामती
•बद्धानां युगपदनुष्ठानाशक्तेः सामर्थ्यात् क्रमप्राप्तौ तद्विशेषापेक्षायां पाठादयस्तद्भेदनिर्णमाय प्रभवन्ति, यत्र तु न शेषशेषिभावो नाप्येकाधिकारावच्छेदो यथा सौर्य्यार्य्यमणप्राजापत्यादीनां तत्र क्रमभेदापेक्षा-भावान्न पाठादिः क्रमविशेषनियमे प्रमाणम्, अवर्जनीयतया तस्य तत्रागतत्वात् । न चेह धर्मब्रह्मजिज्ञासयोः शेषशेषिभावे श्रुत्यादीनामन्यतमं प्रमाणमस्तीति ॥
ननु शेषशेषिभावाभावेऽपि क्रमनियमो दृष्टः, यथा गोदोहनस्य पुरुषार्थस्य दर्शपूर्णमासिकैरङ्गैः सह, यथा वा दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति दर्शपूर्णमाससोमयोरशेषशेषिणोरित्यत आह
भामती-व्याख्या
और
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंआनन्तर्यार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ७९
भामती
❁ अधिकृताधिकारे च प्रमाणाभावाद् ❁ — इति योजना। स्वर्गकामस्य हि दर्शपूर्णमासाधिकृतरूप पशु-कामस्य सतो दर्शपूर्णमासक्रत्वर्थाप्प्रणयनाश्रिते गोदोहनेऽधिकारः। नो खलु गोदोहनद्रव्यमव्याप्रियमाणं साक्षात् पशून् भावयितुमर्हति। न च व्यापारान्तराविष्टं श्रूयते यतस्तदङ्गक्रममतिपतेत्। अप्रणयनाश्रितं तु प्रतीयते "चमसेनापः प्रणयेद् गोदोहनेन पशुकामस्य" इति समभिव्याहारात्, योग्यत्वाच्चास्यापां प्रणयनं प्रति। तस्मात् क्रत्वर्थाप्प्रणयनाश्रितत्वाद् गोदोहनस्य तत्क्रमेण पुरुषार्थमपि गोदोहनं क्रमवदिति सिद्धम्। श्रुतिनिराकरणेनेवेष्टिसोमक्रमवदपि क्रमोऽप्यपास्तो वेदितव्यः।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. १
जिज्ञास्ययोः फलजिज्ञास्यभेदाच्च । अभ्युदयफलं धर्मज्ञानं, तच्चानुष्ठानापेक्षम् । निःश्रेयसफलं तु ब्रह्मविज्ञानं, न चानुष्ठानान्तरापेक्षम् । भव्यश्च धर्मो जिज्ञास्यो न ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात् । इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम् । चोदनाप्रवृत्तिभेदाच्च । या हि चोदना धर्मस्य लक्षणं सा स्वविषये
भामती
क्रमो विवक्षितस्तयेहाप्येकजिज्ञास्यतया धर्मब्रह्मजिज्ञासयोः क्रमो विवक्ष्येत, न चैतदुभयमप्यस्तीत्याह ॐ फलजिज्ञास्यभेदाच्च ॐ । फलभेदं विभज्यते ॐ अभ्युदयफलं धर्मज्ञानम् इति ॐ । जिज्ञासाया वस्तुतो ज्ञानतन्त्रत्वाज्ज्ञानफलं जिज्ञासाफलमिति भावः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंआनन्तर्यार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ८१
नियुञ्जानैव पुरुषमवबोधयति । ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम्, अवबो-
भामती
विभजते ॐ या हि चोदना धर्मस्य इति ॐ । आज्ञादीनां पुरुषाभिप्रायभेदानामसम्भवादपौरुषेये वेदे चोदनोपदेशः । अत एवोक्तं “तस्य ज्ञानमुपदेशः” इति । सा च साध्ये च पुरुषव्यापारे भावनायां, तद्विषये च यागादौ, स हि भावनाविषयः, तदधीननिरूपणत्वात् प्रयत्नस्य भावनायाः । षिञ् बन्धन इत्यस्य धातोर्विषयपदव्युत्पत्तेः । भावनायास्तद्द्वारेण च यागादेरपेक्षितोपायतामवगमयन्तो तत्रेच्छोपहारमुखेन पुरुषं नियुञ्जानैव यागादिधर्ममवबोधयति नान्यथा । ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलं न तु प्रवर्त्तयन्त्यवबोधयति । कुतः,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| ८२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १ |
|---|
धस्य चोदनाजन्यत्वान्न पुरुषोऽवबोधे नियुज्यते । यथाऽक्षार्थसंनिकर्षेणार्थावबोधे,
भामती
नन्वात्मा ज्ञातव्य इत्येतद्विधिपरैर्वेदान्तैस्तदेकवाक्यतयाऽवबोधे प्रवर्त्तयद्भिरेव पुरुषो ब्रह्मावबोध्यत इति समानत्वं धर्मचोदनाभिर्ब्रह्मचोदनानामित्यत आह ॐ न पुरुषोऽवबोधे नियुज्यते ॐ । अयमभि-सन्धिः—न तावद् ब्रह्मसाक्षात्कारे पुरुषो नियोक्तव्यः; तस्य ब्रह्मस्वाभाव्येन नित्यत्वादकार्यत्वात् । नाप्युपासनायां, तस्या अपि ज्ञानप्रकर्षे हेतुभावस्यान्वयव्यतिरेकसिद्धतया प्राप्तत्वेनाविधेयत्वात् । नापि शाब्दबोधे, तस्याप्यधीतवेदस्य पुरुषस्य विदितपदतदर्थस्य समधिगतशाब्दन्यायतत्त्वस्याप्रत्यहमुत्पत्तेः । अत्रैव दृष्टान्तमाह ॐ यथाक्षार्था इति ॐ । दार्ष्टान्तिके योजयति ॐ तद्वद् इति ॐ । अपि चात्मज्ञान-विधिपरेषु वेदान्तेषु नात्मतत्त्वविनिश्चयः शाब्दः स्याद्, नहि तदात्मतत्त्वपरास्ते, किन्तु तज्ज्ञानविधिपराः, यत्पराश्च ते त एव तेषामर्थाः । न च बोधस्य बोधनिष्ठत्वावपेक्षितत्वादन्यपरेभ्योऽपि बोध्यतत्त्वविनिश्चयः, समारोपेणापि तदुपपत्तेः । तस्मान्न बोधविधिपरा वेदान्ता इति सिद्धम् ।
भामती-व्याख्या
शङ्का—"आत्मा वा अरे द्रष्टव्यः, श्रोतव्यो मन्तव्यः" (बृह. उ. २।४।५) इत्यादि विधि परक वेदान्त-वाक्य केवल ब्रह्मावबोध के जनक नहीं, अपितु उसमें प्रवर्तक भी होते हैं, क्योंकि 'तव्य' प्रत्ययरूप विधि से एकवाक्यतापन्न हैं, अतः उन वेदान्त-वाक्यों में प्रवर्तकता का रहना अनिवार्य है। इस प्रकार धर्म-चोदना की समानता ही ब्रह्म-चोदना में पर्यवसित होती है।
समाधान—उक्त आशङ्का का प्रतीकार करते हुए भाष्यकार कहते हैं—"न पुरुषोऽ-वबोधे नियुज्यते"। आशय यह है कि यदि वेदान्त-वाक्यों को ब्रह्मावबोध में प्रवर्तक माना जाता है, तब क्या (१) ब्रह्मविषयक प्रत्यक्षात्मक ज्ञान में ? या (२) ब्रह्मोपासना में ? अथवा (३) परोक्षात्मक शाब्दबोध में ? प्रथम कल्प उचित नहीं, क्योंकि ब्रह्म-साक्षात्कार ब्रह्म-रूप होने के कारण नित्य है, किसी प्रकार की कृति के द्वारा निष्पादनीय नहीं होता। द्वितीय कल्प भी संगत नहीं, क्योंकि किसी वस्तु का निरन्तर दीर्घ समय तक अनुचिन्तन (उपासन) करने से उस विषय का साक्षात्कार सहजतः (अन्वय-व्यतिरेक से) सिद्ध है, अतः 'ब्रह्मो-पासनया ब्रह्मसाक्षात्कारं भावयेत्'—ऐसा विधान निरर्थक है। तृतीय कल्प भी सम्भव नहीं, क्योंकि जिस व्यक्ति को पद पदार्थ का संगति-ग्रहणादि हो गया है, उसे वेदान्त-वाक्यों का श्रवण करते ही ब्रह्म का शाब्द-बोधात्मक ज्ञान विधि के विना वैसे ही सम्पन्न हो जाता है, जैसे इन्द्रियार्थ-सन्निकर्ष के अनन्तर नियमतः अर्थ-ज्ञान उत्पन्न हो जाता है।
दूसरी बात यह भी है कि यदि वेदान्त-वाक्य ज्ञान-विधिपरक माने जाते हैं, तब वेदान्त-वाक्यों के द्वारा आत्मतत्त्व का शाब्दबोधात्मक निश्चय नहीं हो सकेगा, क्योंकि वेदान्त-वाक्य आत्मतत्त्वपरक न होकर ज्ञानविधिपरक माने जाते हैं। उस शब्द का वही मुख्य अर्थ माना जाता है, जो शब्द यत्परक होता है, फलतः इस पक्ष में वेदान्त-वाक्यों से जन्य आत्म-ज्ञानविषयक बोध ही उत्पन्न होगा, आत्मतत्त्वविषयक बोध नहीं। यदि कहा जाय कि आत्म-विषयक बोध की विधि में भी विधेयभूत बोध अपेक्षित है और उक्त बोध अपने विषयीभूत आत्मतत्त्व के बिना सम्भव नहीं, अतः बोधविधिपरक वेदान्तवाक्यों से भी आत्मतत्त्व का निश्चय क्यों न होगा ? तो वैसा नहीं कहा जा सकता, क्योंकि विधेयभूत ज्ञान वास्तविक विषय की अपेक्षा वैसे ही नहीं करता, जैसे "वाचं धेनुमुपासीत" (बृह. उ. ५।८।१) यहाँ पर धेनु-भावना वास्तविक धेनु की अपेक्षा नहीं करती [ जैसा कि आगे चल कर कहा जायगा—"कल्पनोपदेशाच्च मध्वादिवदविरोधः" (ब्र. सू. १।४।१०)। श्रुति भी विस्पष्ट
आनन्तर्यार्थविचारः ] हिन्दीसहितभामतीसंवलितम् ८३
तद्वत्। तस्मात्किमपि वक्तव्यम्—यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते—नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वं
भामती
प्रकृतमुपसंहरति ॐ तस्मात्किमपि वक्तव्यम् इति ॐ । यस्मिन्नसति ब्रह्मजिज्ञासा न भवति सति तु भवन्ती भवत्येवेत्यर्थस्तदाह ॐ उच्यते—नित्यानित्यवस्तुविवेकः इत्यादि ॐ । नित्यः प्रत्यगात्मा, अनित्या देहेन्द्रियविषयादयः, तद्विषयश्चेद्विवेको निश्चयः, कृतमस्य ब्रह्मजिज्ञासया, ज्ञातत्वाद् ब्रह्मणः । अथ विवेको ज्ञानमात्रं न निश्चयः, तथा सत्येष विपर्ययादसन्नः संशयः स्यात्, तथा च न वैराग्यं भावयेत्, अभावयन् कथं ब्रह्मजिज्ञासाहेतुः ? तस्मादेवं व्याख्येयम् । नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः । एतदुक्तं भवति—मा भूदिदं तद्भूतं नित्यमिदं तदनृतमनित्यमिति धर्मिविशेषयो विवेकः धर्मिमात्रयोनित्यानित्ययोस्तद्धर्मयोश्च विवेकं निश्चिनोत्येव । नित्यत्वं सत्यत्वं तद्यस्यास्ति तन्नित्यं सत्यं तथा चाऽऽस्थागोचरः । अनित्यत्वमसत्यत्वं तद्यस्यास्ति तदनित्यमनृतं, तथा चानास्थागोचरः । तदेतेष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु विषयविषयिषु यदृतं नित्यं सुखं व्यवस्थाप्यते तदास्थागोचरो भविष्यति, यस्त्वनित्यमनृतं भविष्यति तापत्रयपरीतं तत् त्यक्ष्यत इति । सोऽयं नित्यानित्यवस्तुविवेकः प्राग्भवीयादैहिकाद्वा कर्मणो विशुद्धसत्त्वस्य भवत्यनुभवोपपत्तिभ्याम् । न खलु सत्यं नाम न किञ्चिद-
भामती-व्याख्या
कहती है—"वाचश्चाधेनोर्धेनुत्वम्" (बृह. उ. ५।८ ) ] । फलतः अब्रह्म में ब्रह्मत्व-ज्ञान की जहाँ विधि है, वहाँ विधेय ज्ञान ब्रह्मतत्त्वनिश्चयात्मक नहीं हो सकता । फलतः वेदान्त-वाक्यों को बोधविधिपरक नहीं माना जा सकता, धर्म-जिज्ञासा और ब्रह्म-जिज्ञासा का साम्य कथमपि स्थापित नहीं किया जा सकता, अतः कर्मावबोध को छोड़ कर "तस्मात् किमपि वक्तव्यम्, यस्मिन्सति ब्रह्मजिज्ञासा न भवति" । ब्रह्म-जिज्ञासा का असाधारण कारण प्रस्तुत करना होगा, वह है— "नित्यानित्यवस्तु-विवेकादि" । यहाँ नित्य (प्रत्यगात्मा) और अनित्य (देह, इन्द्रिय और विषयादि) का विवेक (भेद-निश्चय)—ऐसी व्याख्या नहीं करनी चाहिए, क्योंकि यदि वैसा विवेक-निश्चय है, तब ब्रह्म-जिज्ञासा की क्या आवश्यकता ? उसका फलीभूत ब्रह्मावबोध पहले ही सुलभ है । यदि विवेक का अर्थ किया जाता है—ज्ञानमात्र । तब तो वह विपरीत ज्ञान से भिन्न संशयात्मक ज्ञान ही मानना होगा । संशयात्मक ज्ञान से उसका कार्य वैराग्य उत्पन्न नहीं हो सकता, वैराग्य की उत्पत्ति न करके विवेक-ज्ञान ब्रह्म-जिज्ञासा का हेतु क्योंकर हो सकेगा ? अतः उक्त भाष्य की ऐसी व्याख्या करनी चाहिए—नित्य और अनित्य पदार्थों में वास करनेवाले पदार्थ को नित्यानित्यवस्तु कहा गया है, वह है—नित्यादि का धर्म । नित्य और अनित्यरूप धर्मी एवं उनके धर्मों का विवेक-नित्यानित्यवस्तुविवेक है । आशय यह है कि 'यह आत्मा नित्य और ये देहादि अनित्य हैं'—इस प्रकार धर्मि विशेष का उल्लेख करते हुए नित्यानित्य पदार्थों का विवेक भले ही न हो, सामान्यतः नित्य, अनित्य पदार्थ एवं उनके धर्मों का विवेक निश्चित ही है । नित्यत्व नाम है—सत्यत्व का, वह सत्यत्व जिसमें रहता है, वह सत्य पदार्थ सर्वथा श्रद्धेय और उपादेय है । इसी प्रकार अनित्यत्व का अर्थ असत्यत्व है, वह जिसमें रहता है, वह अनित्य या असत्य है, जो कि अनुपादेय है । समस्त अनुभूयमान युष्मद् और अस्मत्प्रत्यय के विषयीभूत विषय और विषयी पदार्थों में जो ऋत, नित्य और सुखरूप सिद्ध होगा, वह उपादेय और जो अनित्य, अनृत और तापत्रय से युक्त (दुःखरूप) सिद्ध होगा, वह हेय होगा। यह है—नित्य और अनित्य वस्तु का विवेक जो कि पूर्वजन्म अथवा इसी जन्म में उपार्जित पुण्य-राशि के द्वारा विशुद्ध अन्तःकरण में समुत्पादित होता है । यह विवेक दृष्ट पदार्थों में अनुभव और अदृष्ट पदार्थों में युक्ति के द्वारा व्यवस्थापित