सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariHindipublished639 पृष्ठ

इस ग्रन्थ के बारे में

भामती अद्वैत वेदान्त का एक आधारभूत टीका-ग्रन्थ है। नवीं-दसवीं शताब्दी के मैथिल आचार्य वाचस्पति मिश्र ने इसे बादरायण के ब्रह्मसूत्र पर शंकराचार्य के शारीरक-मीमांसा-भाष्य की व्याख्या के रूप में लिखा। परम्परा के अनुसार इसका नाम उनकी पत्नी भामती के नाम पर पड़ा। इसी टीका से अद्वैत की 'भामती-प्रस्थान' नामक धारा चली, जो अविद्या के आश्रय और विषय जैसे प्रश्नों पर विवरण-प्रस्थान से भिन्न मत रखती है।

यह खण्ड ब्रह्मसूत्र के आरम्भिक भाग पर केन्द्रित है, जिसे चतुःसूत्री कहा जाता है: 'अथातो ब्रह्मजिज्ञासा', 'जन्माद्यस्य यतः', 'शास्त्रयोनित्वात्' और 'तत्तु समन्वयात्'। शंकर का अध्यास-भाष्य और इन चार सूत्रों का भाष्य पूरे अद्वैत दर्शन की नींव माने जाते हैं, इसलिए वेदान्त के अध्येता सबसे अधिक परिश्रम इन्हीं पर करते हैं।

इस संस्करण में सूत्र, शाङ्करभाष्य, भामती और स्वामी ऋषिराम के शिष्य उदासीन संन्यासी स्वामी योगीन्द्रानन्द की विस्तृत हिन्दी 'भामती-व्याख्या' एक साथ हैं। यह चौखम्बा विद्याभवन, वाराणसी की विद्याभवन प्राच्यविद्या ग्रन्थमाला (क्रमांक १२) का प्रथम भाग है, जिसका यह स्कैन 2005 के संस्करण का है और 639 पृष्ठों का है।

पृष्ठ 440 स्कैन
४२२ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ३३

भामती
ऽनपेक्षत्वादित्युक्तम् । नन्वेवं मानान्तरविरोधेऽपि कस्माद् गुणवादो भवति यावता शब्दविरोधे मानान्तर-
मेव कस्मान्न बाध्यते । वेदान्तैरिवाद्वैतविषयैः प्रत्यक्षादयः प्रपञ्चगोचराः कस्माद्धार्थवादवद्वेदान्ता अपि
गुणवादेन न नीयन्ते । अत्रोच्यते—लोकानुसारतो द्विविधो हि विषयः शब्दानाम् , द्वारतश्च तात्पर्यतश्च ।
यथैकस्मिन् वाक्ये पदानां पदार्था द्वारतो वाक्यार्थश्च तात्पर्यतो विषयः । एवं वाक्यद्वयैकवाक्यतायामपि
यथेयं देवदत्तीया गौः क्रेतव्येत्येकं वाक्यमेषा बहुक्षीरेत्यपरं, तदस्य बहुक्षीरत्वप्रतिपादनं द्वारम् । तात्पर्यं
तु क्रेतव्येति वाक्यान्तरार्थे । तत्र यद् द्वारतस्तत्प्रमाणान्तरविरोधेऽन्यथा नीयते । यथा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 441 स्कैन

अर्थवादानामुपयोगः ] हिन्दीसहितभामतीसंवलितम् ४२३

भामती

यथा देवताविग्रहादौ तत्र द्वारतोऽपि विषयः प्रतीयमानो न शक्यस्त्यक्तुम् । न च गुणवादेन नेतुं, को हि मुख्ये सम्भवति गौणमाश्रयेदतिप्रसङ्गात् । तथा सत्यनधिगतं विग्रहमपि प्रतिपादयद् वाक्यं भिद्येतेति चेत् । अद्धा भिन्नमेवैतद्वाक्यं, तथा सति तात्पर्यभेदोऽपीति चेत्, न, द्वारतोऽपि तदवगतौ तात्पर्यान्तरकल्पनाया अयोगात् । न च यत्र यस्य न तात्पर्यं तस्य तत्राप्रामाण्यं तथा सति विशिष्टपरं वाक्यं विशेषणेऽप्रमाणमिति विशिष्टपरमपि न स्यात्, विशेषणाविषयत्वात् । विशिष्टविषयत्वेन तु तदाक्षेपे परस्पराश्रयत्वम् । आक्षेपादिशेषणप्रतिपत्तौ सत्यां विशिष्टविषयत्वं विशिष्टविषयत्वाच्च तदाक्षेपः ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 442 स्कैन
४२४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ३३

वाद् गुणवादः स्यात्, आहोस्वित्प्रमाणान्तराविरोधाद्विद्यमानवाद इति प्रतीतिशरणैर्विद्यमानवाद आश्रयणीयो न गुणवादः। एतेन मन्त्रो व्याख्यातः। अपि च विधिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम्। न हि स्वरूपरहितेन्द्राद्यश्वस्तस्यारोपयितुं शक्यन्ते। नच चेतस्यानारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते। श्रावयति च — 'यस्य देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्' (ऐ० ब्रा० ३।८।१) इति। नच शब्दमात्रमर्थस्वरूपं संभवति शब्दार्थयोर्भेदात्। तत्र


भामती

नन्वेवं सत्योदनं भुक्त्वा ग्रामं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 443 स्कैन

देवताया ब्रह्मविद्यायामधिकारः ] हिन्दीसहितभामतीसंवलितम् ४२५


भामती

ॐ अपि च विधिभिरेवेन्द्रादिदैवत्यानि इति ॐ । देवतामुद्दिश्य हविरवमृश्य च तद्विषयस्वत्वत्याग इति यागशरीरम् । न च चेतस्यानालिखिता देवतोद्देष्टुं शक्या, न च रूपरहिता चेतसि शक्यते आलेखितुमिति यागविधिनेव तद्रूपापेक्षिणा यावद्गम्यमपरेभ्योऽपि मन्त्रार्थवादेभ्यस्तद्रूपमवगतं तदभ्युपेयते । रूपान्तरकल्पनायां मानाभावात् । मन्त्रार्थवादयोरत्यन्तपरोक्षवृत्तिप्रसङ्गाच्च । यथा हि 'व्रात्यो व्रात्यस्तोमेन यजेत' इति व्रात्यस्वरूपापेक्षायां 'यस्य पिता पितामहो वा सोमं न पिबेत् स व्रात्य' इति सिद्धवद् व्रात्यस्वरूपमवगतं व्रात्यस्तोमविध्यपेक्षितं सद्गिधिप्रमाणकं भवति, यथा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 444 स्कैन

४२६ [ अ. १ पा. ३ सू. ३३

यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत्तादृशं शब्दप्रमाणकेन प्रत्याख्यातुं
युक्तम् । इतिहासपुराणमपि व्याख्यातेन मार्गेण संभवन्मन्त्रार्थवादमूलत्वात् प्रभवति
देवताविग्रहादि साधयितुम् । प्रत्यक्षादिमूलमपि संभवति-भवति ह्यस्माकमप्रत्य-
क्षमपि चिरंतनानां प्रत्यक्षम् । तथा च व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति
स्मर्यते । यस्तु ब्रूयादिदानींतनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्य-
मिति, स जगद्वैचित्र्यं प्रतिषेधेत् । इदानीमिव च नान्यदापि सार्वभौमः क्षत्रियोऽ-
स्तीति ब्रूयात् । ततश्च राजसूयादिचोदनोपरुन्ध्यात् । इदानीमिव च कालान्तरेऽप्य-

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 445 स्कैन

देवताया ब्रह्मविद्यायामधिकारः ] हिन्दीसहितभामतीसंवलितम् ४२७

योगोऽप्यणिमाद्यैश्वर्यप्राप्तिफलः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम्। श्रुतिश्च योगमाहात्म्यं प्रख्यापयति—‘पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते। न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्’ (श्वे० २।१२) इति । ऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम्। तस्मात्समूलमितिहासपुराणम्। लोकप्रसिद्धिरपि न सति संभवे निरालम्बनाऽध्यवसातुं युक्ता। तस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमः। ततश्चार्थित्वादिसंभवादुपपन्नो

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 446 स्कैन
४२८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ३४

( ९ अपशूद्राधिकरणम् । सू० ३४—३८ )

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥

यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्वधिकार उक्तस्तथैव द्विजात्यधिकारनियमस्यापवादेन शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितुमिदमधिकरणमारभ्यते । तत्र शूद्रस्याप्यधिकारः स्यादिति तावत्प्राप्तम्, अर्थित्वसामर्थ्ययोः संभवात्, 'तस्माच्छूद्रो यज्ञेऽनवक्लृप्तः' ( तै० सं० ७।१।१।६ ) इतिवत् 'शूद्रो

भामती

कृषिकर्मण इव तत्तदवान्तरव्यापारस्य सस्याधिगमसाधनत्वम् । आग्नेयादीनामिवोत्पत्तिपरमापूर्वावान्तरव्यापाराणां

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 447 स्कैन

ब्रह्मविद्यायां शूद्रानधिकारः ] हिन्दीसहितभामतीसंवलितम् ४२९

विद्यायामनवक्लृप्तः' इति च निषेधाश्रवणात्। यच्च कर्मस्वनधिकारकारणं शूद्रस्या-
नग्नित्वं, न तद्विद्यास्वधिकारस्यापवादकं लिङ्गम्। न ह्याहवनीयादिरहितेन विद्या

भामती

न्तुकसामर्थ्याभावे सत्यनधिकार इति चेत्, हन्ताधानाभावे सत्यग्न्यभावादग्निसाध्ये कर्मणि मा भूदधि-
कारः, न च ब्रह्मविद्यायामग्निः साधनमिति किमित्यनाहिताग्नयो नाधिक्रियन्ते ? न चाध्ययनाभावात-
त्साधनायामनधिकारो ब्रह्मविद्यायामिति साम्प्रतम्, यतो युक्तं यदाहवनीये जुहोत्याहवनीयस्य होमाधि-
करणतया विधानात्तद्रूपस्यालौकिकत्यानारभ्याधीतवाक्यविहितादाधानदन्यतोऽनधिगमादाधानस्य च द्विजा-
तिसम्बन्धितया

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 448 स्कैन
४३०ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ३४

वेदितुं न शक्यते। भवति च लिङ्गं शूद्राधिकारस्योपोद्वलकम्। संवर्गविद्यायां हि

भामती

पठ्यते, यथा दर्शपूर्णमासं प्रकृत्य व्रीहीनवहन्तीति । न चानारभ्याधीतमप्यव्यभिचरितं क्रतुसम्बन्धितया क्रतुमुपस्थापयति, येन वाक्येनेव क्रतुना सम्बध्येताध्ययनं, न हि यथा जुह्वाद्यव्यभिचरितक्रतुसम्बद्धमेवं स्वाध्याय इति। तस्मान्नैव क्रत्वर्थे नियमो नापि पुरुषार्थे । पुरुषेच्छाधीनप्रवृत्तिर्हि पुरुषार्थो भवति, यथा फलं तदुपायो वा । तदुपायेऽपि हि विधितः प्राक् सामान्यरूपा प्रवृत्तिः पुरुषेच्छानिबन्धनेव। इतिकर्तव्यतासु तु सामान्यतो विशेषतश्च प्रवृत्तिर्विधिपराधीनंव। नह्यनधिगतकरणभेद इतिकर्तव्यतासु घटते ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 449 स्कैन

ब्रह्मविद्यायां शूद्रानधिकारः ] हिन्दीसहितभामतीसंवलितम् ४३१

जानश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशब्देन परामृशति—'अह हारेत्वा शूद्र तवैव सह गोभिरस्तु' (छा० ४।२।३) इति। विदुरप्रभृतयश्च शूद्रायोनिप्रभवा अपि विशिष्ट-विज्ञानसंपन्नाः स्मर्यन्ते। तस्मादधिक्रियते शूद्रो विद्यास्विति। एवं प्राप्ते ब्रूमः—न शूद्रस्याधिकारः, वेदाध्ययनाभावात्। अधीतवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते। न च शूद्रस्य वेदाध्ययनमस्ति, उपनयनपूर्वकत्वादध्ययनस्य। उपनयनस्य

भामती

भविष्यति। अह हारेत्वा शूद्र इति शूद्रं सम्बोध्य तस्याः प्रवृत्तेः। न चैष शूद्रशब्दः कदाचिदवयवव्युत्पत्त्याऽशूद्रे वर्णनीयः। अवयवप्रसिद्धितः समुदायप्रसिद्धेरनपेक्षतया बलीयस्त्वात्।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 450 स्कैन
४३२ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ३४

च वर्णत्रयविषयत्वात्। यत्त्वर्थित्वं न तदसति सामर्थ्येऽधिकारकारणं भवति। सामर्थ्यमपि न लौकिकं केवलमधिकारकारणं भवति, शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्यस्यापेक्षितत्वात्, शास्त्रीयस्य च सामर्थ्यस्याध्ययननिराकरणेन निराकृतत्वात्। यच्चेदं 'शूद्रो यज्ञेऽनवक्लृप्तः' इति 'तन्न्यायपूर्वकत्वाद्विद्यायामप्यनवक्लृप्तत्वं द्योतयति,

भामती

सम्प्राप्यते प्राप्तश्च फलवत्कर्मब्रह्मावबोधमभ्युदयनिःश्रेयसप्रयोजनमुपजनयति, न तु सुवर्णधारणादौ दृष्टद्वारेण परम्परयाप्यस्त्यपेक्षितं पुरुषस्य, तस्माद्विपरिवृत्त्य साक्षाद्धारणादेव विनियोगभङ्गेन फलं कल्प्यते । यदा चाध्ययनसंस्कृतेन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 451 स्कैन

ब्रह्मविद्यायां शूद्रानधिकारः ] हिन्दीसहितभामतीसंवलितम् ४३३

न्यायस्य साधारणत्वात् । यत्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे, न तल्लिङ्गं, न्यायाभावात् । न्यायोक्ते हि लिङ्गदर्शनं द्योतकं भवति । न चात्र न्यायोऽस्ति । कामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात्, तद्विषयत्वात्, न

भामती

सिद्धवदभिधानस्य न्यायपूर्वकत्वात् न्यायस्य चोभयत्र साम्यात् । द्वितीयं पूर्वपक्षमनुभाषते ॐ यत् पुनः संवर्गविद्यायाम् इति ॐ । दूषयति ॐ न तल्लिङ्गम् ॐ । कुतः ? ॐ न्यायाभावात् ॐ । न तावच्छूद्रः संवर्गविद्यायां साक्षाच्चोद्यते : यथैतया निषादस्थपतिं याजयेदिति निषादस्थपतिः किन्तु अर्थवादवगतोऽयं शूद्रशब्दः स चान्यतः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 452 स्कैन
४३४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. सू. ३४

सर्वासु विद्यासु। अर्थवादस्थत्वात्तु न क्वचिदप्ययं शूद्रमधिकर्तुमुत्सहते। शक्यते चायं शूद्रशब्दोऽधिकृतविषयो योजयितुम्। कथमित्युच्यते? 'कंवर एनमेतत्‌सन्तं सयुग्वान-

भामती

रिणमुपनयति, अतिप्रसङ्गात्। अस्तु तर्हि संवर्गविद्यायामेव शूद्रस्याधिकार इत्यत आह ॐ अर्थवादस्थत्वाद् इति ॐ। तत्किमेतच्छूद्रपदं प्रमत्तगीतं, न चैतद् युक्तं तुल्यं हि साम्प्रदायिकमित्यत आह। ॐ शक्यते चायं शूद्रशब्द इति ॐ। एवं किलात्रोपाख्यायते- जानश्रुतिः पौत्रायणो बहुदायी श्रद्धादेयो बहुपाक्यः प्रियातिथिर्बभूव। स च तेषु तेषु ग्रामनगरशृङ्गाटरेषु विविधानामन्नपानानां पूर्णानितिथिम्य आवसथान् कारयामास। सर्वत

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 453 स्कैन

ब्रह्मज्ञाने शूद्रानधिकारः ] | हिन्दीसहितभामतीसंवलितम् | ४३५

मिव रैकमात्थ' ( छा० ४।१।३ ) इत्यस्माद्धंसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुगुत्पेदे, तामृषी रैकः शूद्रशब्देनानेन सूचयां बभूवात्मनः परोक्षज्ञताख्या-

भामती

वर्तत इति सयुग्वा रैकवस्तमिव कमेनं प्राणिमात्रं जानश्रुतिमात्थ । रैकवस्य हि ज्योतिरसहानं न त्वेतस्य प्राणिमात्रस्य । तस्य हि भगवतः पुण्यज्ञानसम्पन्नस्य रैकवस्य ब्रह्मविदो धर्मे त्रैलोक्योदरवर्तिप्राणभृन्मात्रधर्मोऽन्तर्भवति न पुनारैकवधर्मकक्षां कस्यचिद्धर्मोऽवगाहत इति । अथैष हंसवचनादात्मनोऽत्यन्तनिकर्षमुत्कर्षकाष्ठां च रैकवस्योपश्रुत्य विषण्णमानसो जानश्रुतिः कितव इवाक्षपराजितः पौनःपुन्येन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 454 स्कैन
४३६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ३४

पनायेति गम्यते, जातिशूद्रस्यानधिकारात् । कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति ? उच्यते—तदाद्रवणात् । शुचमभिदुद्राव, शुचा वाऽभिदुद्रुवे, शुचा वा रैक-मभिदुद्रावेति शूद्रः, अवयवार्थसंभवादूढार्थस्य चासंभवात् । दृश्यते चायमर्थोऽस्यामा-ख्यायिकायाम् ॥ ३४ ॥

भामती

स्त्विति । अहेति निपातः साटोपमामन्त्रणे । हारेण युक्ता इत्वा गन्त्री रथो हारेत्वा गोभिः सह तवैवास्तु किमेतन्मात्रेण मम धनेनाकल्पवर्तिनो गार्हस्थ्यस्य निर्वाहानुपयोगिनेति भावः । अहर् त्वेति तु पाठोऽन-र्थकतया च गोभिः सहेत्यत्र प्रतिसम्बन्ध्यनुपादानेन चाचार्यैर्दूषितः । तदस्यामाख्यायिकायां शक्यः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 455 स्कैन

ब्रह्मज्ञाने शूद्रानधिकारः ] हिन्दीसहितभामतीसंवलितम् ४३७

क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥

इतश्च न जातिशूद्रो जानश्रुतिः । यत्कारणं प्रकरणनिरूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहाराल्लिङ्गादवगम्यते । उत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरभिप्रतारी क्षत्रियः संकीर्त्यते—'अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारो बिभिक्षे' ( छा० ४।३।५ ) इति । चैत्ररथित्वं चाभिप्रतारिणः कापेययोगादवगन्तव्यम् । कापेययोगो हि चित्ररथस्यावगतः 'एतेन वै चित्ररथं कापेया अयाजयन्' ( ताण्ड्यब्रा० २०।१२।५ ) इति । समानान्वयानां च प्रायेण समानान्वया याजका भवन्ति ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 456 स्कैन

४३८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ३६

रजयत' इति च क्षत्रपतित्वावगमात्क्षत्रियत्वमस्यावगन्तव्यम् । तेन क्षत्रियेणाभिप्रतारिणा सह समानायां विद्यायां संकीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयति । समानानामेव हि प्रायेण समभिव्याहारा भवन्ति । क्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिः । अतो न शूद्रस्याधिकारः ॥ ३५ ॥

संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥

इतश्च न शूद्रस्याधिकारः, यद्विद्याप्रदेशेषूपनयनादयः संस्काराः परामृश्यन्ते --
'तं होपनिन्ये' (श० ब्रा० ११।५।३।१३) । 'अधीहि भगव इति होपससाद' (छा० ७।१।१) 'ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 457 स्कैन

ब्रह्मज्ञाने शूद्रानधिकारः ] हिन्दीसहितभामतीसंवलितम् ४३९

( छा० ५।११।७ ) इत्यपि प्रदर्शितैवोपनयनप्राप्तिर्भवति। शूद्रस्य संस्काराभावोऽभिलप्यते, 'शूद्रश्चतुर्थो वर्ण एकजातिः' ( मनु० १०।४ ) इत्येकजातित्वस्मरणात्। 'न शूद्रे पातकं किंचिन्न च संस्कारमर्हति' (मनु० १०।१२६) इत्यादिभिश्च ॥ ३६ ॥

तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥

इतश्च न शूद्रस्याधिकारः । यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उपनेतुमनुशासितुं च प्रववृते, 'नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोपत्वा नेष्ये न सत्यादगाः' (छा० ४।४।५) इति श्रुतिलिङ्गात् ॥ ३७ ॥

भामती

वेत्यपि प्रदर्शितैवोपनयनप्राप्तिः ॐ ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 458 स्कैन
४५०ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ३९

श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥

इतश्च न शूद्रस्याधिकारः। यदस्य स्मृतेः श्रवणाध्ययनार्थप्रतिषेधो भवति। वेदश्रवणप्रतिषेधो वेदाध्ययनप्रतिषेधस्तदर्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यते। श्रवणप्रतिषेधस्तावत् 'अथास्य वेदमपश‍ृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्' इति। 'पद्यु ह वा एतच्छ्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्' इति च। अत एवाध्ययनप्रतिषेधः। यस्य हि समीपेऽपि नाध्येतव्यं भवति, स

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 459 स्कैन

विज्ञानमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ४४१

सर्वमिदं जगत्पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठायैजति । वायुनिमित्तमेव च महद्भयानकं
वज्रमुद्यम्यते, वायौ हि पर्जन्यभावेन विवर्तमाने विद्युत्स्तनयित्नुवृष्ट्यशनयो विवर्तन्त
इत्याचक्षते । वायुविज्ञानादेव चेदममृतत्वम् । तथा हि श्रुत्यन्तरम् - वायुरेव व्यष्टि-
र्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद' इति । तस्माद्वायुरयमिह प्रतिप-
त्तव्य इति ।
एवं प्राप्ते ब्रूमः - ब्रह्मैवेदमिति प्रतिपत्तव्यम् । कुतः ? पूर्वोत्तरालोचनात् ।

भामती

तथाहि—प्राणशब्दो मुख्यो वायावाध्यात्मिके, वज्रशब्दश्चाशनौ । अशनिश्च वायुपरिणामः । वायुरेव हि
बाह्यो धूमज्योतिःसलिलसंवलितः पर्जन्यभावेन परिणतो

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें