भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
इस ग्रन्थ के बारे में
भामती अद्वैत वेदान्त का एक आधारभूत टीका-ग्रन्थ है। नवीं-दसवीं शताब्दी के मैथिल आचार्य वाचस्पति मिश्र ने इसे बादरायण के ब्रह्मसूत्र पर शंकराचार्य के शारीरक-मीमांसा-भाष्य की व्याख्या के रूप में लिखा। परम्परा के अनुसार इसका नाम उनकी पत्नी भामती के नाम पर पड़ा। इसी टीका से अद्वैत की 'भामती-प्रस्थान' नामक धारा चली, जो अविद्या के आश्रय और विषय जैसे प्रश्नों पर विवरण-प्रस्थान से भिन्न मत रखती है।
यह खण्ड ब्रह्मसूत्र के आरम्भिक भाग पर केन्द्रित है, जिसे चतुःसूत्री कहा जाता है: 'अथातो ब्रह्मजिज्ञासा', 'जन्माद्यस्य यतः', 'शास्त्रयोनित्वात्' और 'तत्तु समन्वयात्'। शंकर का अध्यास-भाष्य और इन चार सूत्रों का भाष्य पूरे अद्वैत दर्शन की नींव माने जाते हैं, इसलिए वेदान्त के अध्येता सबसे अधिक परिश्रम इन्हीं पर करते हैं।
इस संस्करण में सूत्र, शाङ्करभाष्य, भामती और स्वामी ऋषिराम के शिष्य उदासीन संन्यासी स्वामी योगीन्द्रानन्द की विस्तृत हिन्दी 'भामती-व्याख्या' एक साथ हैं। यह चौखम्बा विद्याभवन, वाराणसी की विद्याभवन प्राच्यविद्या ग्रन्थमाला (क्रमांक १२) का प्रथम भाग है, जिसका यह स्कैन 2005 के संस्करण का है और 639 पृष्ठों का है।
| ज्योतिषो ब्रह्मत्वम् ] | हिन्दीसहितभामतीसंवलितम् | २५३ |
|---|
घ्याथी शब्दोऽर्थान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यते । तद्यथा- 'ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्' इत्युपक्रम्याह 'सैषा विराडन्नादी' ( छा० ४।३।८ ) इति । अस्मिन्पक्षे ब्रह्मैवाभिहितमिति न छन्दोऽभिधानम् । सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म ॥ २५ ॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
इतश्चैवमभ्युपगन्तव्यमस्ति, पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति । यतो भूतादीन्पादान्व्यपदिशति । भूतपृथिवीशरीरहृदयानि हि निर्दिश्याह — 'सैषा चतुष्पदा षड्विधा गायत्री' इति । नहिं ब्रह्मसमाश्रयणे केवलस्य छन्दसो भूतादयः पादा उपपद्यन्ते । अपि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२५४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. २६
च ब्रह्मानाश्रयणे नेयमृक् संबध्येत—'तावानस्य महिमा' इति। अनया हि ऋचा स्वर-
सेन ब्रह्मैवाभिधीयते, 'पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' (छा० ३।१२।५ )
इति सर्वात्मत्वोपपत्तेः । पुरुषसूक्तेऽपीयमृङ्ग्रहपरतयैव समाम्नायते । स्मृतिश्च ब्रह्मण
एवंरूपतां दर्शयति—'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' (गी० १०।४२ )
इति, 'यद्वै तद् ब्रह्म' ( छा० ३।१२।७ ) इति च निर्देशः । एवं सति मुख्यार्थ उपपद्यते ।
'पञ्च ब्रह्मपुरुषाः' (छा० ३।१३।६ ) इति च हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसंबन्धितायां
विवक्षितायां संभवति । तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम् । तदेव ब्रह्म ज्योति-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंप्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २५५
वृक्षाग्रात्परतः श्येन इति च । एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते । अपर आह - यथा लोके वृक्षाग्रेणासंबद्धोऽपि श्येन उभयथोपदिष्यमानो दृश्यते, वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च । एवं च दिवः परमपि सद् ब्रह्म दिवीत्युपदिश्यते । तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम् । अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥
( ११ प्रतर्दनाधिकरणम् । सू० २८-३१ )
प्राणस्तथानुगमात् ॥ २८ ॥
**अस्ति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| २५६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. २८ |
|---|
सिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च' इत्यारभ्याम्नाता । तस्यां श्रूयते - 'स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व' इति । तथोत्तरत्रापि 'अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति' (कौ० ३।१,२,३) इति । तथा 'न वाचं विजिज्ञासीत वक्तारं विद्याद्' इति । अन्ते च 'स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः' (कौ० ३।८) इत्यादि ।
भामती
कतमदित्यत्र विचार्यते । न चायमर्थोऽत एव प्राण इत्यत्र विचारितः । स्यादेतत् — हिततमपुरुषार्थसिद्धश्च निखिलभ्रूणहत्यादिपापापरामर्शश्च प्रज्ञात्मत्वं चानन्त्वादिश्च न मुख्ये प्राणे सम्भवन्ति । तथैष साधु कर्म
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंप्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २५७
तत्र संशयः - किमिह प्राणशब्देन वायुमात्रमभिधीयते, उत देवतात्मा, उत जीवः, अथवा परं ब्रह्मेति ? ननु 'अत एव प्राणः' इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्म-परत्वम् । इहापि च ब्रह्मलिङ्गमस्ति - 'आनन्दोऽजरोऽमृतः' इत्यादि । कथमिह पुनः संशयः संभवति ? अनेकलिङ्गदर्शनादिति ब्रूमः । न केवलमिह ब्रह्मलिङ्गमेवोपलभ्यते, सन्ति हीतरलिङ्गान्यपि—'मामेव विजानीहि' (कौ० ३।१) इतीन्द्रस्य वचनं देवता-त्मलिङ्गम् । इदं शरीरं परिगृह्योत्थापयतीति प्राणलिङ्गम् । 'न वाचं विजिज्ञासीत वक्तारं विद्याद्' इत्यादि जीवलिङ्गम् । अत उपपन्नः संशयः तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते
भामती
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| २५८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. २८ |
|---|
उच्यते—प्राणशब्दं ब्रह्म विज्ञेयम् । कुतः ? तथाऽनुगमात् । तथा हि—पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदार्थानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते । उपक्रमे तावत् 'वरं वृणीष्व' इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप—'त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे' इति । तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात् ? नह्यान्यत्र परमात्मज्ञानाद्धिततमप्राप्तिरस्ति, 'तमेव विदि-
भामती
सहोत्क्रामतः' इति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहोत्क्रमणमुच्यते । न च ब्रह्मण्यभेदे द्विवचनं, न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंप्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २५९
त्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' ( श्वेता० ३।८ ) इत्यादिश्रुतिभ्यः । तथा 'स यो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्याया' ( कौ० ३।१ ) इत्यादि च ब्रह्मपरिग्रहे घटते । ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः - 'क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' ( मु० २।२।८ ) इत्याद्यासु श्रुतिषु । प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते, नहाचेतनस्य वायोः प्रज्ञात्मत्वं संभवति । तथोपसंहारेऽपि - 'आनन्दोऽजरोऽमृतः' इत्यानन्दत्वादीनि न ब्रह्मणोऽन्यत्र सम्यक् संभवन्ति । 'स न साधुना कर्मणा भूयान्भवति नो एवासाधुना
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| २६० | ब्रह्मसूत्रशाङ्करभाष्यम् | [अ. १ पा. १ सू. ३० |
|---|
प्रत्यगात्मसंबन्धः, तस्य भूमा बाहुल्यम् , अस्मिन्नध्याये उपलभ्यते । 'यावद्धयस्मिन् शरीरे प्राणो वसति तावदायूः' इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानोप-संहारयोः स्वातन्त्र्यं दर्शयति, न देवताविशेषस्य पराचीनस्य । तथाऽस्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति । तथा 'प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति' (कौ० ३।३) इति । 'न वाचं विजिज्ञासीत वक्तारं विद्यात्' इति चोपक्रम्य 'तद्यथा रथस्यारेषु नेरिमर्र्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञा-मात्रास्वर्पिताः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[ प्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६१
जीवमुख्यप्राणलिङ्गानेति चेन्नोपासात्रैविध्या-
दाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
यद्यप्यध्यात्मसंबन्धभूमादर्शनान्न पराचीनस्य देवतात्मन उपदेशः, तथापि न ब्रह्मवाक्यं भवितुमर्हति । कुतः ? जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च । जीवस्य तावदस्मिन् वाक्ये विस्पष्टं लिङ्गमुपलभ्यते 'न वाचं विजिज्ञासीत वक्तारं विद्याद्' इत्यादि । अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकारणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते । तथा मुख्यप्राणलिङ्गमपि—'अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति' इति । शरीरधारणं च मुख्यप्राणस्य धर्मः,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. ३१
उपासात्रैविध्यात् । एवं सति त्रिविधमुपासनं प्रसज्येत—जीवोपासनं, मुख्यप्राणो-
पासनं ब्रह्मोपासनं चेति। न चैतदेकस्मिन् वाक्येऽभ्युपगन्तुं युक्तम्, उपक्रमोपसंहारा-
भ्यां हि वाक्यैकत्वमवगम्यते। 'मामेव विजानीहि' इत्युपक्रम्य 'प्राणोऽस्मि
प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व' इत्युक्त्वा, अन्ते 'स एव प्राण
एव प्रज्ञात्मानन्दोऽजरोऽमृतः' इत्येकरूपावुपक्रमोपसंहारौ दृश्येते । तत्रार्थैकत्वं
युक्तमाश्रयितुम् । न च ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम्, दशानां भूतमात्राणां
प्रज्ञामात्राणां च ब्रह्मणोऽन्यत्रापर्णानुपपत्तेः । आश्रितत्वाच्चान्यत्रापि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंप्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६३
अथवा—‘नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’ इत्यस्यायमन्योऽर्थः—न ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते । कथम् ? उपासात्रैविध्यात् । त्रिविधमिह ब्रह्मोपासनं विवक्षितम्—प्राणधर्मेण, प्रज्ञाधर्मेण, स्वधर्मेण च । तत्र ‘आयुर्मृतमुपास्स्वायुः प्राणः’ इति, ‘इदं शरीरं परिगृह्योत्थापयति’ इति, ‘तस्मादेतदेवोक्थमुपासीत’ इति च प्राणधर्मः । ‘अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामः’ इत्युपक्रम्य ‘वागेवास्या एकमङ्गमदुदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति’ इत्यादिः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. ३१
भामती
नोद्घाटितः। स्वव्याख्यानेनैवोक्तप्रायत्वादिति सर्वमवदातम् ॥ ३१ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां
प्रथमस्याध्यायस्य प्रथमः पादः।
भामती-व्याख्या
ह्यर्थो विधीयते" (जै.
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंमनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६५
प्रथमाध्याये द्वितीयः पादः ।
[ अत्रास्पष्टब्रह्मलिङ्गयुक्तवाक्यानामुपास्यब्रह्मविषयाणां विचारः ]
( १ सर्वत्र प्रसिद्धयधिकरणम् । सू० १-८ )
प्रथमे पादे 'जन्माद्यस्य यतः' इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् । तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं, नित्यत्वं, सर्वज्ञत्वं, सर्वशक्तित्वं, सर्वात्मत्वमित्येवंजातीयका धर्मा उक्ता एव भवन्ति । अर्थान्तरप्रसिद्धानां च केषांचिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि संदिह्यमानानि ब्रह्मपरतया निर्णीतानि । पुनरप्यन्यानि वाक्याून्यस्पष्टब्रह्मलिङ्गानि संदिह्यन्ते—किं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| २६६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. २ सू. १ ] |
|---|
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
इदमाम्नायते—'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत। अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत', 'मनोमयः प्राणशरीरो भारूपः' ( छा० ३।१४।१, २ ) इत्यादि । तत्र संशयः—किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते, आहोस्वित्परं ब्रह्मेति ? किं तावत्प्राप्तम् ? शारीर इति । कुतः ? तस्य हि कार्यकारणाधिपतेः प्रसिद्धो मनआदिभिः संबन्धो न परस्य ब्रह्मणः, 'अप्राणो ह्यमनाः शुभ्रः' ( मु० २।१।२ ) इत्यादिश्रुतिभ्यः ।
भामती
ॐ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंमनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६७
ननु 'सर्वं खल्विदं ब्रह्म' इति स्वशब्देनैव ब्रह्मोपात्तं, कथमिह शारीर आत्मोपास्य
आशङ्क्यते ? नैष दोषः, नेदं वाक्यं ब्रह्मोपासनाविधिपरं । किं तर्हि ? शमविधिपरम् ।
यत्कारणं 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' इत्याह । एतदुक्तं भवति—
यस्मात्सर्वमिदं विकारजातं ब्रह्मैव तज्जत्वात्तल्लत्वात्तदनत्वाच्च । न च सर्वस्यैकात्म-
त्वेन रागादयः संभवन्ति, तस्माच्छान्त उपासीतेति । न च शमविधिपरत्वे सत्यनेन
भामती
प्राणशरीर इत्यादिभिर्विषयोपनायकैः सम्बध्यते । मनोमयादि च कार्यकारणसङ्घातात्मनो जीवात्मन
एव निरूढमिति जीवात्मनोपास्येनोपरक्तोपासना न पश्चाद्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६८ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. २ सू. १
वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते । उपासनं तु 'स क्रतुं कुर्वीत' इत्यनेन विधीयते ।
क्रतुः सङ्कल्पो ध्यानमित्यर्थः । तस्य च विषयत्वेन श्रूयते - 'मनोमयः प्राणशरीरः' इति
जीवलिङ्गम् । अतो ब्रूमो जीवविषयमेतदुपासनमिति । 'सर्वकर्मा सर्वकामः' इत्याद्यपि
श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते । 'एष म आत्माऽन्तर्हृदयेऽणीयान्व्रीहेर्वा
यवाद्वा' इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरि-
च्छिन्नस्य ब्रह्मणः । ननु 'ज्यायान्पृथिव्या' इत्याद्यपि न परिच्छिन्नेऽवकल्पत इति ।
अत्र ब्रूमः- न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यं,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंमनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६९
भविष्यतीति। निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसंकीर्तनं—'एतद्ब्रह्म' (छा० ३।१४।४) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव। तस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्यः।
इत्येवं प्राप्ते ब्रूमः—परमेव ब्रह्म मनोमयत्वादिभिर्धर्मैरुपास्यम्। कुतः? सर्वत्र प्रसिद्धोपदेशात्। यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम्, इह च 'सर्वं खल्विदं ब्रह्म' इति वाक्योपक्रमे श्रुतं, तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम्। एवं च सति प्रकृतहानाप्रकृतप्रक्रिये न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२७० ब्रह्मसूत्रशाङ्करभाष्यम् [अ. १ पा. २ सू. १
शमविधिधिविवक्षया ब्रह्म निर्दिष्टं न स्वविवक्षयेत्युक्तम्। अत्रोच्यते—यद्यपि शमविधि-
विवक्षया ब्रह्म निर्दिष्टं तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म सन्निहितं
भवति। जीवस्तु न सन्निहितो न च स्वशब्देनोपात्त इति वैषम्यम् ॥ १ ॥
भामती
'किमर्थमित्यत्रापि न विज्ञायते। तद्येनैष शब्दः समवेतार्थो भवति स समासार्थः। न चैष जीव एव
समवेतार्थो न ब्रह्मणीति, तस्याप्राणो ह्यमना इत्यादिभिस्तद्विरहप्रतिपादनादिति युक्तम्। तस्यापि
सर्वविकारकारणतया विकाराणां च स्वकारणादभेदात्तेषां च मनोमयतया ब्रह्मणस्तत्कारणस्य मनोमय-
त्वोपपत्तेः।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंमनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंचालितम् २७१
विवक्षितगुणोपपत्तेश्च ॥ २ ॥
वक्तुमिच्छा विवक्षिता। यद्यप्यपौरुषेये वेदे वक्तुरभावान्नेच्छार्थः सम्भवति, तथाप्युपादानेन फलेनोपचर्यते। लोके हि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तदविवक्षितमिति। तद्ब्रह्मेऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति, इतरदविवक्षितम्। उपादानानुपादाने तु वेदवाक्यतातपर्य्यातात्पर्य्याभ्यामवगम्येते। तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसंकल्पप्रभृत-
भामती
विना भुजङ्गो रूपवान्, तदा भुजङ्गस्यैवाभावात् किं रूपवत्। भुजङ्गदशायां तु न नास्ति वास्तवौ रज्जुः। तदिह समारोपितजीवरूपेण वस्तुसद् ब्रह्म
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२७२ ब्रह्मसूत्रशाङ्करभाष्यम् [अ. १ पा. २ सू. २
यस्ते परस्मिन्ब्रह्मण्युपपद्यन्ते । सत्यसंकल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात् परमात्मन एवावकल्पते । परमात्मगुणत्वेन च 'य आत्माऽपहतपाप्मा' (छा० ८।७।१) इत्यत्र 'सत्यकामः सत्यसंकल्प' इति श्रुतम्। आकाशात्मेत्यादिनाकाशवदात्माऽस्येत्यर्थः । सर्वगतत्वादिभिर्धर्मैः संभवत्याकाशेन साम्यं ब्रह्मणः । 'ज्यायान्पृथिव्याः' इत्यादिना चैतदेव दर्शयति । यदाप्याकाश आत्मा यस्येति व्याख्यायते, तदापि संभवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम् । अत एव 'सर्वकर्मा' इत्यादि । एवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते । यत्तूक्तं 'मनोमयः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें