सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 104, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 104

७४ शुल्बसूत्रम् [ द्वितीयोऽध्यायः
एतासामेकं करणम् । विभागविधानेन करणान्युपदिष्टानीति वेदितव्यं सर्वत्र ।
परिमण्डलपक्षेऽष्टाङ्गुलविष्कम्भं परिमण्डलमश्मानं मध्ये निधाय परितः सममष्टधा
विभजेत् । एवं भूमौ लिखित्वा इष्टकाः कारयेत् । तत्र बाह्यफलकं बहिर्वक्रम् ।
अभ्यन्तरफलकमन्तर्वक्रम् ॥ ३८ ॥
अथ होतुर्धिष्ण्यं नवधा विभज्य पूर्वास्त्रिभागानैकैकं द्वेधा
विभजेत् ॥ ३९ ॥
अथेति । होतुर्धिष्ण्यमपि नवधा विभज्य पूर्वान् त्रिभागानैकैकं द्वेधा
विभजेत् । आद्यहोतुर्धिष्ण्यमध्ये द्वादशेष्टका भवन्ति ॥ ३६ ॥
अथेति । अथ शब्द उपधानक्रममनुवदति, नेष्टकाकरणक्रमम् । पूर्वान् पूर्व-
रीतिस्थान् । द्वेधा—अष्टाङ्गुलदीर्घान् चतुरङ्गुलव्यासान् । तासामेकं करणम् ।
इतरासाम् आग्नीध्रीयवत् । एवं द्वादशहोत्रीय उपदधातीत्युक्तं भवति । मण्डलपक्षे
द्वादशधा समशः प्रतिविभागः । तत्र बाह्यफलकं धनुर्वक्रम् । अभ्यन्तरं प्रदेशशून्य-
मेव । मण्डलपक्षे सर्वत्र भूमौ लिखित्वा इष्टकाः कारयेत् ॥ ३९ ॥
अथेतरान्नवधा नवधा विभज्य मध्यमपूर्वौ द्वौ भागौ
समस्येत् ॥ ४० ॥
अथेतरानिति । अथेतरान् मैत्रावरुणादिधिष्ण्यानेकैकं नवधा विभज्य
मध्यपूर्वभागमेकीकुर्यात्, आहत्य प्रति धिष्ण्यम् अष्टाविष्टका भवन्ति ॥४०॥
अथेतरेति । इतरान् प्रशास्तृप्रभृतीन् पञ्चधिष्ण्यान् नवधा नवधा विभज्य
द्वितीय-तृतीययोर्मध्यमौ भागौ समस्येत् एकीकुर्यादित्यर्थः । तासामेकैकं करणं
अष्टाङ्गुलन्यासं षोडशाङ्गुलदीर्घम् । उत्तरासाम् आग्नीध्रीयवत् । एवं धिष्ण्या अष्टेष्टका
भवन्ति । मण्डलपक्षे तु समप्रविभागः ॥ ४० ॥
अथ मार्जालीयं त्रेधा विभज्य पूर्वापरौ भागौ पञ्चधा
विभजेत् ॥ ४१ ॥
अथ मार्जालीयमिति । मार्जालीयन्तु त्रेधा विभज्य पूर्वं भागं द्वेधा
विभज्यापरं भागं विभजेत्, आहत्य षडिष्टका भवन्ति ॥ ४१ ॥
अथेति । दक्षिणोत्तरेण त्रेधा विभज्य पूर्वं द्वेधा अष्टाङ्गुलन्यासं द्वादशाङ्गुल-
दीर्घं विभजेत् । तयोरेकं करणम् । अपरं त्रेधा विभजेत् । तासाम् आग्नीध्रीयवदेकं
करणम् । मध्यमस्य धिष्ण्यायाम् अष्टाङ्गुलन्यासमेकं करणम् ।
मण्डले तु समशः षोढा विभागः । एवं धिष्ण्यानां चतुरस्रपक्षे पञ्च करणानि ।
अष्टाङ्गुलसमचतुरस्रमेकम् । तेन द्विपञ्चाशदिष्टकाः । अष्टाङ्गुलदीर्घं चतुरङ्गुल-