सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 10, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 10

( १ )
करणयोरानयनम्, अन्यासाविष्टकरणीनामानयनम्, समचतुरश्रयोः समसनप्रकारः, महा-
चतुरश्रादल्पचतुरश्रापोद्धारप्रकारः, समचतुरश्रस्य दीर्घचतुरश्रकरणोपायः, समचतुरश्रस्य
दीर्घचतुरश्रकरणे प्रकारान्तरम्, दीर्घचतुरश्रस्य समचतुरश्रीकरणोपायः, चतुरश्रस्यैकतोऽ-
णिमत्करणोपायः चतुरश्रस्य प्रउगकरणोपायः (प्रउगम् = शकटमुखम् ), चतुरश्रस्योभयतः
प्रउगकरणोपायः चतुरश्रस्य मण्डलकरणोपायः, मण्डलस्य चतुरश्रकरणोपायः, द्विकरणीपरि-
ज्ञानोपायः, गार्हपत्यदक्षिणाहवनीयाग्नीनां स्थानानयनप्रकारः, उत्करस्थानानयनम्,
दार्शिकीया वेदेर्विहरणोपायः, पाशुबन्धिकवेदि विहरणोपायः, उत्तरवेदि विहरणोपायः पैतृक्या
वेदेर्विहरणोपायः, सौत्रामणीवेदि विहरणोपायः, अग्निष्टोमवेदि विहरणोपायः, सौमिकमहा-
वेदि विहरणोपायः, सदोविहरणोपायः, सदोहविर्धानविहरणोपायः, सौमिकोत्तरवेदि विहरणो-
पायः, चात्वालोपखयोर्विहरणोपायः, धिष्ण्यानां विहरणम्, आग्नीध्रमार्जालीयागारविहरणम्,
प्रक्रमादिविशेषनिर्णयश्चेत्यादिविषयाः प्रथमेऽध्याये सूत्रिताः।
सर्वाग्निसामान्येनाग्निधर्माः, अग्निपरिमाणम्, अग्नेः सर्वक्रतुषु विकल्पः, प्रथमा-
ग्निचयन इष्टकासंख्या, अग्नेः पशुसमानाकारत्वम्, अग्निचयने नियमः, अग्नीनां विशेष-
धर्मकथनम्, इष्टकाधर्मकथनम्, चतुरश्रगार्हपत्यचित्युपधानम्, परिमण्डलगार्हपत्यचित्यु-
पधानम्, धिष्ण्यानामुपधानप्रकारः, इष्टकानिर्माणे विशेष इत्यादयो विषया द्वितीयेऽध्याये
वर्णिताः सन्ति।
श्येनचिदाकारनिरूपणम्, चतुरश्येनचिद्विमानप्रकारः, चतुरश्रश्येनचिदुपधानप्रकारः,
वक्रपक्षव्यस्तपुच्छश्येनचिदुपधानम्, कङ्कचिदुपधानप्रकारः, अलजचिदुपधानप्रकारः, प्रउग-
चिदुपधानप्रकारः, उभयतः प्रउगचिदुपधानप्रकारः, प्रधियुक्तरथचक्रचिदुपधानप्रकारः,
चतुरश्रद्रोणचिदुपधानप्रकारः, परिमण्डलद्रोणचिदुपधानप्रकारः, समूह्यपरिच्चाय्यचितोरुपधान-
प्रकारः, श्मशानचिदुपधानप्रकारः, वक्राङ्गकूर्मचिदुपधानप्रकारः, परिमण्डलकूर्मचिदुपधान-
प्रकार इत्यादयो विषयास्तृतीये समुपन्यस्ताः सन्ति।
बौधायनशुल्वसूत्रमेतत् सर्वेषु शुल्बसूत्रेषु विषयदृष्ट्याऽनन्यसाधारणं प्राचीनतमं च
विराजते। कस्यापि वर्गस्य भुजयुताऽऽयतरूपतया परिणमनस्य रैखिको विधिः शुल्बसूत्रेऽ-
स्मिन् (८०० खी० पू०) वर्णितः। बोधायनेन श्रौतसूत्रमपि रचितमासीत्। श्रौतसूत्र-
स्यास्य काले श्रोणानां कृत्तिकानां चोदयः सहश्यामभूद् दिशि। एतेन बोधायनसमयः
ख्रीस्तात् पूर्वं १३३० वर्षेषु सिध्यतीति गोरखप्रसादो मन्यते।
बौधायनस्य समुल्लेखस्तदीयेषु श्रौत-गृह्य-धर्म-पितृ-श्रौत-प्रवर-सूत्रेषु लभ्यते।
इतरत्र आग्निवेश्य-गृह्यसूत्रे (२, ६, ३.: ३६); चरणव्यूहे (२: ३६); संस्कारभारद्वाज-
गृह्यसूत्रे, संस्कारकौस्तुभे चापि तन्नाम खल्लुलिख्यते। तन्नाम्ना प्रसिद्धा ग्रन्था बौधायनश्रौत-
सूत्रम्, बौधायनगृह्यसूत्रम्, बौधायनधर्मसूत्रम्, बौधायनपितृमेधसूत्रम्, बौधायनश्रौतप्रवरः,