बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 97, कुल 774 में से
संदर्भ में पढ़ें७६ बौधायनश्रौतसूत्रम् [ ३ । ६, ७, ८ । ]
जिन्वेत्येवमेव द्वितीयमवमृज्यौषधीष्वेव¹ निमार्ष्टि² दक्षिणतः
प्राचीनावीती पितृभ्यस्त्वा पितॄञ्जिन्वेत्यथाप उपस्पृश्य द्विरङ्गुल्या
प्राश्नाति प्रजा ज्योतिरित्यथोदङ् पर्यावृत्य प्राचीनदण्डया स्रुचा
भक्षयति ॥ ६ ॥
इदꣳ हविः प्रजननं मे अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये । ५
आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि ॥
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ।
रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति सायम् ' सूर्यः प्रजां
बहुलां मे करोत्विति प्रातर्निर्णिक्षु स्रुचं निष्ट्याद्भिः पूरयि-
त्वोदुद्गृह्णाति सप्तर्षीन्प्रीणीहि सप्तर्षीञ्जिन्व³ सप्तर्षिभ्यः स्वा- १०
हेति ' सप्तर्षीनेव प्रीणातीति ब्राह्मणमथ जघनेन गार्हपत्य-
मपो निनयतीदमहमग्नौ वैश्वानरे ऽमृतं जुहोमि स्वाहेत्ये-
चित्यामचित्ताऊतिं जुहोमि स्वाहेत्यन्तर्वेदि निनयति ' ऽवलोप-
ममिन्द्धे ब्रह्मवर्चमस्य समिद्ध्या अपो⁴ निनयत्यवमृष्टस्यैव रूप-
मकरिति ब्राह्मणम् ' ॥ ७ ॥ द्वितीयः ॥ १५
अथ सायम् हुते ऽग्निहोत्रे यज्ञोपवीत्यप आचम्य⁵ यज-
मानायतने तिष्ठन्नाहवनीयमुपतिष्ठत उपप्रयन्तो अध्वरमिति
षड्भिरनुच्छन्दसम् ' षड्भिरेवोत्तराभिरग्निपावमानीभिराह-
१ उम्मृज्य (rightly ?) JF Be.
२ उन्माष्टि Be J.
३ सप्तऋष० everywhere instead of सप्तर्षे० B Be JF.
४ ०ध्या अपो BBe HJ ; समिद्ध्यापो T.
५ Be TF ins. अग्रेणाहवनीयं परीत्य ।