सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 90, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 90

दशाध्यायिकः : पुनराधेयम्
Digitized by Madhuban Trust
[ ३ । २, २ । ] बौधायनश्रौतसूत्रम् । ६६
अग्नीन्पुनराधास्यमानो भवति । तदाहुः कृतयजुः संभृत-
संभारो भवति न संभृत्याः संभारा न यजुः कर्तव्यमित्येथो
खलु संभृत्या एव संभाराः कर्तव्यं यजुः पुनराधेयस्य समृद्ध्या
इति । स उपकल्पयते पुनर्निष्कृतꣳ रथं पुनरुत्स्यूतं वासः
५ पुनरुत्सृष्टमनड्वाहं दर्भकुलायं तिस्रो दर्भमय्योर्विस्स्रंसिकाः ।
प्रज्ञाता आग्न्याधेयिकाः संभाराः । सा याषाढ्याः पौर्णमास्याः
पुरस्तादमावास्या भवति सा महासंवत्सरस्य पुनर्वसुभ्याꣳ
संपद्यते तस्यामादधीतेति । तस्या उपवसथे ऽरण्योरग्नीन्समा-
रोह्योदवसाय मथित्वाग्नीन्विहृत्याग्नेयमष्टाकपालं निर्वपति
१० वैश्वानरं द्वादशकपालमग्निमुदासयिष्यन्निति । सा प्रसिद्धेष्टिः
संतिष्ठते । ऽथ तदानीमेवाद्भिरग्नीन्समुक्ष्य ब्रह्मोदनꣳ श्रप-
यित्वोपवसंत्यथ प्रातराग्न्याधेयिकं कर्म तायत । एतावदेव
नाना । यदमुत्र मुञ्जकुलायं तदिह दर्भकुलायं । यो ऽमुत्रेध्मः
प्रणयनीयः स इह दर्भमय्योर्विस्स्रंसिका । दर्भैर्गार्हपत्यमाद-
धाति१ दर्भैरन्वाहार्यपचनं दर्भैराहवनीयं । दर्भैर्गार्हपत्यमा-
दधात्याधाने२ सर्पराज्ञीर्ऋचो३ ऽनुवर्तयति ॥ १ ॥
भूमिर्भूम्ना द्यौर्वरिम्णेति चतस्रो गार्हपत्ये तिस्र आह-
१ आदधाति om. Be FJ.
२ Thus Be H; instead of आदधात्याधाने J has आदद्यन्नित्याधाने
and F: ऽप्याधाने; T om. दर्भैर्गार्हपत्यम् and B is defective.
३ Thus H; सर्पराज्ञीऋचो Be; सर्पराज्ञीऋचा F; सार्पराज्ञीऋचो J; सर्प-
राज्ञीयाऋचो T; B defective.
CC-0. Public Domain. Vipin Kumar Collection, Deoband