बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 84, कुल 774 में से
संदर्भ में पढ़ें[२ । १७, १८ । ] बौधायनश्रौतसूत्रम् । ६३
प्रदक्षिणमावृत्त्यैवं प्रतिष्ठापयति यदिदं दिवो यददः पृथिव्याः
संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाः
शम्भूः प्रजाभ्यस्तनुवे स्योनः ॥ प्राणं त्वामृत आदधाम्यन्नाद-
मन्नाद्याय गोप्तारं गुप्ता इत्यथोद्गातारमाह बृहद्वारवन्तीयꣳ
५ श्यैतमिति¹ गायेति ' सर्वाणि संप्रेष्यति² ' बृहति गीयमान
आहवनीयमादधाति भूर्भुवः सुवरर्कश्चक्षुस्तदसौ सूर्य्यस्तदय-
मग्निः संप्रियः पशुभिर्भूवत् । यत्ते शुक्रं शुक्रं वर्चः शुक्रा
तनूः शुक्लं ज्योतिरजस्रं तेन मे दीदिहि तेन त्वादधे
ऽग्निनाग्ने ब्रह्मणा अमूषां त्वा देवानां व्रतपते व्रतेनादधा-
१० मीति ' यथर्षि यथागोत्रं ' गायत्रेण छन्दसेत्युत्तरतो हिरण्य-
शल्कमुपास्यति खया तनुवा संभवेत्येतैꣳ राजतं वृषलाय
वाज्ञाताय वातिप्रयच्छत्यौर्त्तिमेवातिप्रयच्छतीति ब्राह्मणमथैन-
मुपतिष्ठत आनग्ने व्यानग्ने सर्वमायुर्व्यानग्न इत्येतैतावग्नी
आदधाति सभ्यं चावसथीयं च³ ' रथचक्रं प्रवर्तयति संततं⁴
१५ गार्हपत्यादाहवनीयात् ' ॥ १७ ॥
सर्वोषधेन व्याहृतीभिरभ्यौक्ष्मयित्वा⁵ पञ्चपञ्च नाना-
वृक्षीयाः समिधो ऽभ्यज्याभिदधाति समिध्यमानः प्रथमो नु
धर्म इत्येताभिः पञ्चभिरायुर्दा अग्ने हविषो जुषाण इत्येता-
१ B Be ins. साम before गायेति, T: श्यैतयौतसामगायेत
२ Thus B Bn. ; the other MSS. संप्रेष
३ BH चाथ ४ Thus HB Be J ; संततां the other MSS.
५ Thus only J, the other MSS. व्याहृतिभि०