बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 762, कुल 774 में से
संदर्भ में पढ़ेंपत्नीष्टके उपदधाति वसूनां गायत्री तया देवतयाङ्गिरस्वद्ध्रुवा
सीद रुद्राणां त्रिष्टुप्कया¹ देवतयाङ्गिरस्वद्ध्रुवा सीदेति '
सर्वासां पारे सूददोहसः करोत्यथोपरिष्टात्प्राचीः सप्तहोतृ-
ष्टका उपदधाति महाहविर्होता तया देवतयाङ्गिरस्वद्ध्रुवा
सीद सत्यहविरध्वर्युस्तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति षडपि ५
वानाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरावित्येतेन मन्त्रेण द्वे इष्टके
समानतयादेवते उपदधाति ' तया देवतयाङ्गिरस्वद्ध्रुवे सीद-
तमिति मन्त्रँ संनमयत्यथ² हृदयेष्टकामुपदधातीन्द्रो राजा
जगतो य ईश इत्यान्तादनुवाकस्याथ यजुरिष्टका उपदधा-
त्यदितिर्वेद्या तया देवतयाङ्गिरस्वद्ध्रुवा सीद सोमो दौष्या १०
तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति त्रयोदशाथ पत्नीष्टका
उपदधात्यादित्यानां जगती तया देवतयाङ्गिरस्वद्ध्रुवा सीद
विष्णोरनुष्टुप्कया³ देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यष्टादश ' सर्वासां
पारे सूददोहसः करोत्यथ यथावकाशं ग्रहेष्टका उपदधाति
वाचस्पते विधे नामन्निति दशहोतुर्वाचस्पते वाचो वीर्ये- १५
णिति चतुर्होतुः सोमः सोमस्य पुरोगा इति पञ्चहोतुर्भू-
र्भुवः सुवरिति षड्ढोतुर्वाचस्पते हृद्विधे नामन्निति सप्तहोतुः '
सर्वासां पारे सूददोहसः करोत्यथ यथावकाशमेव प्रतिग्रहे-
ष्टका उपदधाति ' देवस्य त्वा सवितुः प्रसव इत्यनुद्रुत्यैषा ते
१ त्रिष्टुप्तया M.
२ Thus MH ; संनमत्य॰ the other MSS.
३ ॰ष्टुप्तया