बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 718, कुल 774 में से
संदर्भ में पढ़ेंसमानलोकौ स्याव समानं लोकमियावेति तावेतेन यज्ञक्रतुना
यजेयाताम्¹ समानलोकावेव भवतः समानं लोकमितो '
ऽश्वरथो यज्ञायुधः प्रासङ्ग्यसमसः सा ब्राह्मणस्य दक्षिणाऽश्व-
तरोरथः सर्वायुधो ऽप्रासङ्ग्यः कार्ष्णीरस्तूष्णीबन्धः² सा राजन्यस्य
५ दक्षिणा ' तस्य त्रिवृत्पञ्चदशौ विपर्यासं स्तोमौ भवतस्त्रिवृ-
द्देव ब्राह्मणस्य पञ्चदशो राजन्यस्य ' तमेतमिन्द्राग्नियोः कुलाय
इत्याचक्षत ' एष एव सन्नितापुत्रीय एष सख्योर्यज्ञ एष
भ्रात्रोः " ॥ ३५ ॥ नवमः ॥
अभिचरणीयैः सोमैर्यक्ष्यमाणो भवति ' स द्वयानि
१० यज्ञायुधान्युपकल्पयते बाधकानि च तैल्वकानि च श्वानसो³
ऽधिषवणे फलके पुरुषास्थस्य⁴ वृषणौ ' स यत्राध्वर्युरूपाꣳशुं
ग्रहीष्यन्वाजानमभिषुणोति तस्य यो ऽꣳशुः परापतति तमे-
तस्मिन्पात्र आधायाेपसंगृह्याहामुं जह्यथ त्वा होष्यामीत्या-
तमितोरास्ते ' ऽथैतं भङ्गमाहवनीये ऽनुप्रहरतीदमहममुमा-
१५ मुष्यायणं परिसुम्ना⁵ भङ्गेन⁶ विव्यामीत्येव यं यजमानो द्वेष्टि
पादटिप्पण्यः (Footnotes)
१ यजेतां all exc. M.
२ •तूणीबंधः Be; •तूषिबंधः U; तूष्णीबंधः M; •तूषिबंन्धः B; चौषिबंधः
Be 7 D.
३ Thus M Be; श्वानभ्ये Be 7 D (cp. Ap. XXII. 4. 17, Śāṅkh.
XIV. 22. 18, Ṣaḍv. br. III. 8); श्वाननभ्ये U; श्वाननभोग्यो B; cp.
the Dvaidhasūtra.
४ Thus M; all the other MSS. corrupt.
५ Thus M; परिसुम्नासंगेन Be U B; परिपानाभंग्येन Be 7 D.