बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 678, कुल 774 में से
संदर्भ में पढ़ें[ १८ । २, ३ । ] बौधायनश्रौतसूत्रम् । ३४५
राजा राजसूयेन यक्ष्यमाण आध्यायति¹ त्रिषु वर्णेष्वभिषिक्ते-
ष्वध्यभिषिच्येय² पुरोहिते स्थपतौ सूत इति । पुरोहितो
दीक्षते । तस्य तिस्रो दीक्षास्तिस्र उपसदः । समानमाभिषेकस्य
कालादभिषेकस्य काले शुक्रामन्थिनोः सꣳस्रावेणाभिषिञ्चति ।
५ चतुष्टोम एष भवति ।॥ २ ॥
स्थपति³ स्थपतिसवेन यक्ष्यमाणो भवति स उपकल्पयत
आर्षभं चर्म सुवर्णरजतौ च रुक्मावौदुम्बरं पात्रं दध्यभिषेच-
नाय । दीक्षते । तस्य तिस्रो दीक्षास्तिस्र उपसद । आग्नेयस्य
मारुती पृश्निः पष्ठौह्युपालम्भ्या भवति । सप्त हवीꣳषि
१० प्रातःसवनीयाननुवर्तन्ते यदाग्नेयो भवत्यग्निसुखाद्वाद्धिरित्ये-
तानि । समानमाभिषेकस्य कालादभिषेकस्य काले यजमाना-
यतन आर्षभं चर्म प्राचीनग्रीवमुत्तरलोमोपस्तृणाति । तद्यज-
मानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्यौदुम्बरे
पात्रे दध्यान्येनाभिषिञ्चति देवस्य त्वा सवितुः प्रसवे ऽश्विनो-
१५ र्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेण
स्थपतिसवेनाभिषिञ्चामीति । समुन्मृष्टे समुत्क्रोशन्तीति समानमा
मुखस्य विमार्जनात् । एष स्थपतिसवः सप्तदशो ऽग्निष्टोम । एष
एव स्थपतिसव । एष वैश्यसव⁴ । एष ग्रामसवो । मासा
हैनेनातः⁵ पूर्वमीजिरे ।॥ ३ ॥
१ •ध्यायतीति M. २ Thus MD Be 7; •षिच्येणु Be BU.
३ om. Be BU. ४ वैश्यस्य सव Be 7.
५ i. s. o. अतः Be 7 अज, D अजं ।
44