बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 665, कुल 774 में से
संदर्भ में पढ़ें४३२ बौधायनश्रौतसूत्रम् । [ १७ । ५१, ५२ । ]
मष्टाकपालं निर्वपति मैत्रावरुणीमामिक्षाग्ं ' सा दिष्टविरिष्टिः
संतिष्ठते ' वाजिनस्य काले वाजिनेन चरति ' निधत्ते वासो '
विसृजते व्रतं ' विसृष्टव्रत एतं १ पूर्वपक्षं भवत्यथ पौर्णमास्या-
गच्छत्युत्सौदति व्रतपतिर्यदेवोर्ध्वं व्रतपतेस्तेन प्रतिपद्यते '
तदेतत्संवत्सरावगधग्ं २ सोमसग्ंस्थम् ३ ॥ ५१ ॥ ५
अथैदादध इत्याचक्षते ' समानं वाससश्च व्रतपतेश्च '
तयैन्द्रं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ
प्रातराग्नेयमष्टाकपालं निर्वपत्यग्नीषोमीयमेकादशकपालमैन्द्रग्ं
सांनाय्यग्ं ' सा चिष्टविरिष्टिः संतिष्ठते ' ऽथैतदैन्द्रग्ं सांनाय्यग्ं
समुपहूय भक्षयन्ति ' तथाहतं वासः परिधायापरपक्षं व्रतं १०
चरत्यागच्छत्यमावास्या ' ४ तस्या उपवसथे यजते ' तथा
मैत्रावरुणं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं
वाथ प्रातराग्नेयमष्टाकपालं निर्वपत्यैन्द्रमेकादशकपालं मैत्रा-
वरुणीमामिक्षाग्ं ' सा चिष्टविरिष्टिः संतिष्ठते ४ ' वाजिनस्य
काले वाजिनेन चरति ' निधत्ते वासो ' विसृजते व्रतं ' १५
विसृष्टव्रत एतं ५ पूर्वपक्षं भवत्यथ पौर्णमास्यागच्छत्युत्सौदति
१ एवं M.
२ Thus M ; ०रावगंधं Be ; ०राववाध्ये Be 7 BDU.
३ ०सग्ंस्था M.
४...४ Thus M only ; the other MSS. are partly defective, partly corrupt.
५ एवं M.