बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 648, कुल 774 में से
संदर्भ में पढ़ेंचाऽ अवित्सोदं पितृभ्यो नमो अस्त्वत्येत्यध्वर्युर्होता ब्रह्मा त
उपतिष्ठन्ते ' यत्रैव शतावृष्णां धारयति तन्निदधाति प्रति-
ष्ठित्या इति ब्राह्मणं ' तदेवैनां निधाय दक्षिणतो निद-
धात्यैतानि पात्राणि पुराणभस्मनः खरे सादयति ॥ ३६ ॥
पितृभ्यः स्वधाविभ्यः स्वधा नमः पितामहेभ्यः स्वधा-
विभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधाविभ्यः स्वधा नम
इत्येच गर्भिणीं वडवां ददात्येथाप उपस्पृश्य बार्हस्पत्यस्य
पशुपुरोडाशं याचति ' तेन चरति१ देवताप्रभृतिनेडान्ते-
नाथ पशुभिश्चरति मनोताप्रभृतिभिरिडान्तैरित्येतान्पुरोडा-
शान्याचत्यैन्द्रमेकादशकपालꣳ सावित्रं द्वादशकपालं वारुणं
दशकपालमिति ' तैश्चरति देवताप्रभृतिभिरिडान्तैरनूयाजै-
श्चरित्वा प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य
ध्रुवामाप्याय्य त्रीणि पाशुवन्धिकानि समिष्टयजूंषि जुहोति
यज्ञ यज्ञं गच्छेष ते यज्ञो यज्ञपते देवा गातुविद इत्येतै-
मवभृथꣳ सꣳसादयन्ति२ यत्किंचित्सुरालिप्तं भवति तत्सह
हृदयशूलानि भवन्त्येतत्समादायान्तरेण३ चात्वालोत्करावुद-
ङ्ङुपनिष्क्रामन्ति ॥ ३७ ॥
द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वं भुवनꣳ समेत्यन्तरा पूर्वमपरं च केतुमिति '
१ चरति M Tr.
२ Thus M Tr Be ; ०सादयति HBU ; संप्रकिरंति T.
३ भवन्त्ये० HU ; भवन्तौत्ये० M ; भवतौत्ये० T ; भवत्ये० B Be.