बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 633, कुल 774 में से
संदर्भ में पढ़ें[कुण्डपायिनामयनम्]
Digitized by Madhuban Trust
३०० बौधायनश्रौतसूत्रम् । [ १७ । २०, २१ ]
रहानि॑ प्रायणीयारम्भणीयौ॑ स मासः॑ १ पौर्णमासहवि-
र्भीयन्ति मासं॑ वैश्वदेवहविर्भीयन्ति२ मासं॑ वरुणप्रघास-
हविर्भीयन्ति मासं॑ साकमेधहविर्भीयन्ति मासं॑
शुनासीरीयहविर्भीयन्ति षट्त्रिंशतिरहान्यभिजित्त्रयः३ परः-
सामानः॑ स मासो॑ वैषुवतं॑ त्रयो ऽर्वाक्सामानो॑ ऽथ ५
विश्वजिच्च त्रयस्त्रिंशेन४ यन्ति मासं॑ त्रिणवेन यन्ति मासमेक-
विंशेन यन्ति मासं॑ सप्तदशेन यन्ति मासं॑ पञ्चदशेन
यन्ति मासं॑ त्रिवृता यन्ति द्वादशाहानि॑ गोआयुषी॑
तानि चतुर्दश॑ चत्वार्यूर्ध्वं वैषुवतात्तान्यष्टादश॑ दशरात्रो
महाव्रतं चातिरात्रश्च॑ स मासः॑ ॥ २० ॥ १०
अथैषां कुण्डानि॑ ते यत्सर्व एव त्रिवेदसो५ भवन्ति
तदेषां कुण्डमथ यदन्यो ऽन्यमनुपरिसर्पं६ याजयन्ति तदेषां
कुण्डमथ यत्सरुकैश्चमसैर्भक्षयन्ति७ तदेषां कुण्डं॑ तेषां य
एव ब्रह्मा स एव८ ब्राह्मणाच्छंसी स पोता॑ ऽथ यो होता स
एव मैत्रावरुणः सो ऽच्छावाको॑ ऽथ य उद्गाता स एव १५
१ Thus MB Be; Be 7 D present here a lacuna of two akṣaras.
२ UBD here and infra each time यजंति i.s.o. यन्ति ।
३ षट्त्रिंशति० i.s.o. षष्टिंशति० M.
४ After विश्वजित् Be ins. मासं ।
५ Thus M; ०वेदसौ the other MSS.
६ Thus M; परि om. all the other MSS.
७ यत्स्रुकै० M.
८ एव om. all exc. M.
CC-0. Public Domain. Vipin Kumar Collection, Deoband