बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 630, कुल 774 में से
संदर्भ में पढ़ेंयाज्यान्यजति॑ सो ऽचैव पत्नीः संयाज्याचैव समिष्टयजूंषि¹
जुहोति॑ संतिष्ठते पात्नीवतः॑ ॥ १६ ॥ तृतीयः ॥
अथ वै भवति यो ऽग्न्याधेयेन नर्ध्रोति स पुनराधेयम-
धत्ते यो ऽग्निं चित्वा नर्ध्रोति स पुनश्चितिं चिनुत इत्य॑ग्निं
५ चित्वा ज्यानानो द्वादशेष्टका उपकल्पयते ऽष्टौ याजुषीस्तिस्रो
लोकंपृणाः॑ स यत्र² होत्तरवेदिर्व्याघारितोपन्युप्तसंभारा
भवति तद्बाभ्यामात्मन्यग्निं³ गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो
नो अग्निरिति॑ स्वयं चितिं जपति यास्ते अग्ने समिधो यानि
धामेति॑ श्वेतमश्वमभिमृश्याष्टौ याजुषीरुपदधाति येनर्षय-
१० स्तपसा सत्रमासतॆति॑ चतस्रो लोकंपृणा लोकं पृण छिद्रं
पृणेत्य॑थ चितिक्लृप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वा-
नित्य॑ाग्नेय्या गायत्रियैतां चितिमभिमृश्य द्वाभ्यामवद्रवति वाङ्न
आसन्प्राणदा इति॑ तायते पशुबन्धो वाग्निष्टोमो वा॑ स
प्रज्ञातः संतिष्ठते॑ ॥ १७ ॥ चतुर्थः ॥
१५ ⁴जर्वरो गृहपतिर्धृतराष्ट्र ऐरावतो ब्रह्मा दत्तस्तापसो होता
पृथुश्रवा दूरेथ्रवा⁵ उद्गाता ग्लावस्त्वाजगवस्⁶ प्रस्तोतृप्रति-
१ ०ष्टयजूंर् MH.
२ Thus M ; तद्येहोत्त० D ; यत्राहोत्तः the other MSS.
३ Thus M Be B U ; ०न्नंनग्निं or ०न्नन्नग्निं Be 7 D.
४ On the following cp. Baudh. gṛhs. III, adhy. 10 and Pañc
br. XXV, 15.
५ Found in M only.
६ Thus M ; ग्राव० or गाव० the other MSS.
38