बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 619, कुल 774 में से
संदर्भ में पढ़ें२८६ बौधायनश्रौतसूत्रम् । [१७ । ४, ५।]
रवोमथेत्य॑थ१ यत्र होतुरभिजानाति प्रप्र वस्विष्टुभमिति
तत्प्रसिद्धमुक्यं२ प्रतिगोर्य प्राङेत्योद्यच्छत एत१ षोडशिनं
ग्रहमंनूद्यच्छन्ते चमसानंथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा
यज सोमानामिति । वषट्कृते३ षोडशिनं जुहोतीन्द्राधिपते
ऽधिपतिस्त्वं देवानामस्र्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु ५
कुर्विति । वषट्कृतानुवषट्कृते द्विर्जुहोति । तथैव द्विर्द्विः सर्वान्-
समसाञ्जुह्वत्य॑थ भक्षैः प्रत्यञ्च आद्रवन्त्य॑नुसवनभक्ष इन्द्रेण षोड-
शिना पीतस्येति । तस्य४ व्युदितो४ भक्षो । यजमानवग्ग्रो हि५
यजमानस्य होतृवग्ग्रो होतुस्तांवे चेदध्वर्यवे प्रब्रूयातां वषट्कर्तुर्भक्ष
इत्येव ब्रूयात्त॑थात्मानं भक्षान्नार्तरिति६ । तस्य भक्षः ॥ ४ ॥ १०
इन्द्रश्च सम्राडरुणस्य राज्ञा तौ ते भक्षं चक्रतुरग्र एतम् ।
तयोरनु भक्षं भक्षयामि वाग् जुषाणा सोमस्य तृप्यतु तस्य त
इन्द्रेण षोडशिना पीतस्य मधुमत उपहूतस्योपहूतो भक्षया-
मीति । निर्णिज्य पात्रं प्रयच्छत्य॑थैतमरुणपिङ्गङ्गमश्वं ददाति
१ The pratigara thus only in the Vivaraṇa; all the MSS.
(exc. only M, which has the first time also मोद इव) and Keś. read
मोदैव i.s.o. मोद इव ।
२ तत् only found in MDUBe 12.
३ Thus M Tr Be 12 Be UD Keś.; वषट्कृतानुवषट्कृते HB.
४ Thus MDH(= विविधमुक्तः) ; तस्याण्युदितो the other MSS.
५ Thus Be 12 HDU Keś.; ह Be B; om. M Tr.
६ Thus M (writing: भक्षांना०); भक्षमंतरेति Be 12; भक्षांतरेणेति
H Tr; भक्षांतरेगोजि U; भक्षांतरे Be; भक्षानंतर B; D om. this passage.