बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 583, कुल 774 में से
संदर्भ में पढ़ेंमीमाꣳसा ' चात्वाले ऽवनयेदास्तावे निनयेत्प्रोक्षणीः¹ कुर्वीत²
पुरोडाशीयानि पिष्टानि संयौयादित्येनादृत्य' ³ तदुद्ग्राह-
ष्वधीना एवैनाः कुर्यादुद्गातारो⁴ हैताभिररण्येगेयानाꣳ साम्नाꣳ
शुचꣳ शमयन्तो मन्यन्ते ' ता उ चेदध्वर्यवे प्रब्रूयुरपो ऽभ्यव-
हरतेत्येव ब्रूयादित्येतावदेवैतदहः शिल्पं क्रियते ' ऽहीनसंततिं ५
करोत्यथ श्वो भूते तायते त्रयस्त्रिꣳश उक्थ्यो रैवतसामा
सौर्यो ऽतिग्राह्यो ' उद्भिदैवैतद्दूर्वामिश्राभिरध्वर्युर्माहेन्द्रस्य
स्तोत्रमुपाकरोति ' ॥ ४ ॥
तासामुक्ता मीमाꣳसा ' स्वयमृतुयाजमेवैतदहर्भवति '
नैतदहरन्योऽन्यस्यर्तुयाजं यजन्ति⁵ ' स यत्राहाध्वर्यू यजतमिति १०
तदध्वर्यू जघनेन हविर्धाने उपविश्य स्वयमृतुयाजं यजतो
ये३⁶ यजामहे ऽश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबता-
मर्वाञ्चमद्य ययं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् ।
पृङ्क्तं हवीꣳषि मधुना हि कं ग