सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 569, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 569

त्यमश्वं विशमतेत्या३मिति१ ' नाश्वस्य वपा भवति ' चन्द्रमिव
मेदः परिवृक्तम्२ साश्वस्य वपा ' वपा३ तूपरस्यैव गोमृगस्य '
कालायसैः पर्यङ्गाणां लोहितायसैरितरेषां सुवर्णैर्दक्षिणेषाम्
रजतैरुत्तरेषाम् ' ॥ ३० ॥
अश्वस्यैवाध्वर्युर्वपया प्रथमया प्रतिपद्यते ' ऽनूचीरितरा ५
आहरन्त्यश्वस्यैव वपायै प्रतितप्यमानायै बर्हिषो ऽग्रमुपास्य-
त्युपेतरा यच्छन्त्युत्तरतो ऽश्वस्य तूपरस्य गोमृगस्येति वपाः
श्रपयन्ति दक्षिणत इतरेषां पशूनामश्वस्यैव वपां स्रुवाहुत्या-
भिजुहोत्युपेतरा यच्छन्त्य ४ स्वाहाकृतिप्रैषेण चरित्वा सꣳस्रा-
वेण पृषदाज्यमभिघार्याश्वस्यैव वपामभिघारयत्युपेतरा यच्छ- १०
न्त्यथ पुरस्तात्स्वाहाकृतिः४ स्रुवाहुतिं हुत्वा सुवर्णेन महि-
मानं जुहोति तस्य ते द्यौर्महिमेत्यथोपोस्तीर्य द्विः स्रुवेणाश्व-
स्यैव५ वपाꣳ समवलुम्प्याह प्रजापतय इत्युपाꣳशु हव्यस्य
छागस्योक्थस्य वपानां मेदसो ऽवदीयमानस्यानुब्रूहीत्युच्चैर्यावतीः६
स्रुक्संभवत्येतेतराः पात्र्या वेडसूनेन वोपोद्यच्छन्ते ' ऽद्भिरभि- १५
१ Thus (without, however, the pluti sign) M ; ०तमृष्ठपिनष्टि इत्य-
मश्वं विशसस्वे इत्यामिति Be, and thus also BU (but र्श्व i.s.o. इत्य) ।
२ ०वृक्तं MSS. exc. M.
३ वपां M.
४...४ left out in all the MSS. exc. M.
५ एव om. M.
६ वदीयमानानामवु० M, cp. supra xi. 5 (p. 70, 11).— यावतो M, यावति
the other MSS. cf. supra l.c.