बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 561, कुल 774 में से
संदर्भ में पढ़ेंविपक्ष्मा रथे । द्रोणा धृष्णू नृवाहसेत्य॑थ केतुं कृण्वन्केतवे
इति ध्वजं प्रतिमुञ्चत्य॑थ यजमानं वर्मसंहननीयाभिः संनह्यति
जीमूतस्येव भवति प्रतीकूमिति चतुर्दशभिर्यथारूपम॑थ रथ-
मुपतिष्ठते वनस्पते वीड्वङ्गो हि भूया इति तिसृभिरनु-
च्छन्दसम॑थ दुन्दुभिमुपश्वासयत्युपश्वासय पृथिवीमुत द्यामिति ५
तिसृभिरनुच्छन्दसम॑थ दक्षिणꣳ ह्रदमभिप्रयाति द्यौस्ते पृष्ठं
क्रमैरत्यक्रमौदाम्नाक्रान्त्वाजीति त्रिभिरनुवाकैरा॑ क्रोडेभ्यो ऽश्वा-
नभिधावयन्त्यैतꣳ१ रथं प्रदक्षिणमावृत्य शालामानयति
यद्वातो अपो अगमदिन्द्रस्य तनुवं प्रियाम् । एतꣳ स्तोतरेतेन
पथा पुनरश्वमावर्तयासि न इति ' तानध्वर्युरुत्तराभि स्तोकी- १०
याभिरन्वैत्यग्नये स्वाहा सोमाय स्वाहेत्येतेनानुवाकेन पुनःपुन-
रभ्युपाकारं यावदेषाꣳ स्तोका उपरमन्त्यैतमश्वमग्रेण यूपान्
खरथात्प्रमुच्य सौवर्णेन संदानेन संदित्याध्वर्योरा वसथं द्वियोगं
वर्तयन्त्य॑थ महिषी वावाता परिवृक्तीत्येता अस्मै २गन्धान्गणा-
न्मणीꣳश्चादायाभ्यायन्त्यश्वं ' तस्य यत्प्राक् क्रोडात्तन्महिष्यभ्यनक्ति १५
वसवस्त्वाञ्जन्तु गायत्रेण छन्दसेति पौतुद्रवेण प्रतिष्ठितानां
जायाभिः सहाथ यत्प्रतीचीनं क्रोडादा नाभेस्तद्वावाताभ्यनक्ति
रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन छन्दसेति ॥ २४ ॥
गौल्गुलवेनाराज्ञां जायाभिः सहाथ यत्प्रतीचीनं नाभेरा
१ ॰भिधापयंत्य॰ M (as supra xv. 5 and 6, p. 209. 7, 210. 12) ; ॰भि-
तापयंत्य॰ the other MSS.
२ Thus M ; गंधानन्गणाणन्मणी॰ Be ; गंधाव्वणामणी॰ BU.