बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
DevanagariHindipublished774 पृष्ठ
पृष्ठ 543, कुल 774 में से
संदर्भ में पढ़ेंपृष्ठ 543२१० बौधायनश्रौतसूत्रम् । [ १५ । ५, ६ । ]
२१० बौधायनश्रौतसूत्रम् । [ १५ । ५, ६ । ]
वाम्यथ शुनः प्रहरासीत्युपमौवत एष पौञ्जलेयः सैध्रकेण
मुसलेन शुनः प्रहन्ति॑ तमत एवानुमन्त्रयते ॥ ५ ॥
यो अर्वन्तं जिघाꣳसति तमभ्यमीति वरुण इति॑ ।
तमश्वस्याधस्पदमुपास्य दक्षिणाप्लावयति परो मर्तः परः
श्वेत्या॑थास्य ब्रह्मा हस्तं गृह्णाति ब्रह्मणो वा यजमानो ऽहं च ५
त्वं च वृत्रहन्त्सं॑बभूव सनिभ्य आ । अरातीवा चिदद्रिवो ऽनु
नौ शूर मꣳसतै भद्रा इन्द्रस्य रातय इत्य॑थैतमैषीकमभ्यूहं१
मौञ्जीभ्याꣳ रज्जुभ्यामन्तयोरभिदधाति॑ तत्सह वेतसशाखो-
पसंबद्धा भवति॑ तदेतेन शतं तल्पा राजपुत्रा विविञ्चन्ते॑
तेषामनु विवेकमितरे॑ द्वे अन्यतरमन्तꣳ शते गृह्णीतो द्वे १०
अन्यतरमन्तꣳ शते॑ अथैनान्त्सूꣳशास्त्येनेनैषीकेणाभ्यूहेनाभ्यु-
दूहन्त॑ इव पुरस्तात्प्रत्यञ्चमूर्म्मिणामश्वमभिधावयाता२ इत्य॑भि-
धाव्यमाने३ ऽध्वर्युर्यजमानं वाचयत्यभि कृत्वेन्द्र भूरध ज्मन्न ते
विव्यङ्महिमानꣳ रजाꣳसि । स्वेना हि वृत्रꣳ शवसा जघन्थ
न शत्रुरन्तं विविदुर्य्युधा त इत्य॑थैनꣳ संवेष्ट्य दक्षिणाप्लावय- १५
त्य॑थैतमश्वं प्रदक्षिणमावर्त्य शालामानयति यदातो अपो
अगमदिन्द्रस्य तनुवं प्रियाम् । एतꣳ स्तोतरेतेन पथा पुनर-
१ •भ्यूहंत MSS. exc. M.
२ •भिधापयाता M ; •धावधंता the other MSS. ; if अभिधावयाता is the
correct reading we have here a form of the same kind as समाप-
याता (supra p. 207, 12).
३ •धाप्यमाने again M.