सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 539, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 539

[Header] २०६ बौधायनश्रौतसूत्रम् । [ १५ । २, ३ । ]

ऽन्तरिक्षचिते लोकस्पृते लोकमस्मै यजमानाय देहीत्यन्वाहार्य-
पचनं ' नमः सूर्याय दिविचिते लोकस्पृते लोकमस्मै यज-
मानाय देहीत्याहवनीयमथास्यैतत्पुरस्तादेव जघनेनाश्वशाला-
मेकापक्षावं विमितं कारितं भवति ' तद्वृथाग्निमुपसमाधाय
मृत्यवे स्वाहा मृत्यवे स्वाहेति नवतिमाहुतीर्जुहोति प्रयासाय ५
स्वाहेत्येकादश ' गतायुर्वै पुरुषः गतवीर्य आत्मैकशतो यावा-
नेव पुरुषस्तस्मान्मृत्युमवयजत इति ब्राह्मणमथ केशश्मश्रु वाप-
यित्वा लोमानि संहृत्य नखानि निकृत्य दतो धाव्य स्नाता-
वहते वाससी परिदधाते ' उभौ मानुषेणालङ्कारेणालङ्कृतौ
भवतो ऽहतवाससावेथाभ्यां व्रतोपायनीयं पाचयति ' तस्या- १०
श्रितौ भवतः सर्पिर्मिश्रस्य पयोमिश्रस्याथापराह्ने मुखयोर्हिरण्ये
अन्वस्येते ॥ २ ॥
सुवर्णं यजमानो रजतं पत्नी रजतानि वा यदि बह्व्यो
भवन्त्यथास्य वाचंयमस्य सायमग्निहोत्रं जुहोत्युपसंगच्छन्त एन-
मेते राजगृह्याः सूतग्रामण्यः१ क्षत्तसंग्रहीतारः कारुविशा२ १५
इति ' तेभ्यः पष्ठौहीं वेहतं ददाति ' तां ते पचमाना रम-
यन्तो जागरयन्त आसते ' ऽथ प्रातराचाममाचामन्तौ हिरण्ये
प्रोथतस्ते पौञ्जिलेय आदत्ते ' ऽथादित्यमुद्यन्तमुपतिष्ठन्ते द्रष्ट्रे
नम उपद्रष्ट्रे नमो ऽनुद्रष्ट्रे नमः ख्यात्रे नम उपख्यात्रे नमो
ऽनुख्यात्रे नमः शृण्वते नम उपशृण्वते नमो ऽनुशृण्वते नमः २०


पादटिप्पण्यः (Footnotes):
[FN1] १ Thus B ; ग्रामण्यः the other MSS.
[FN2] २ cp. XVIII. 18.