बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
DevanagariHindipublished774 पृष्ठ
पृष्ठ 507, कुल 774 में से
संदर्भ में पढ़ेंपृष्ठ 507१७६ बौधायनश्रौतसूत्रम् [ २४ । १३ । ]
१७६ बौधायनश्रौतसूत्रम् [ २४ । १३ । ]
विश्वादावस्य त्वासञ्जुहोमि स्वाहेति॑ हस्तौ प्रक्षालयते
ऽग्घादेकः ऽऊतादेकः सममनादेकः । ते नः कृण्वन्तु भेषजᳵ
षदः सहो वरेण्यमित्येतैनं त्रिभिर्दर्भपुञ्जीलैः पवयति पवमानः
सुवर्जन इत्येतेनाष्टर्चेन॑ शुद्धो हैव शुचिः पूतो मेध्यो भवत्यथ
वै भवत्यङ्गां विधान्यामष्टकायामपूपं चतुःशरावं पक्त्वा ५
प्रातरेतेन कक्षमुपोषेदिति¹ समां² विजिज्ञासमानो महारात्र
उत्थायाङ्गां विधान्यामष्टकायामपूपं चतुःशरावं पक्त्वा
प्रातरुदित आदित्ये विप्रुषित³ आददत एतमपूपमुपस्तीर्णा-
भिघारितं पर्णसेवाभ्यां परिगृह्य॑ तत्सह पूतितृणानि
⁴भवन्त्यन्तमागारादेकोल्मुकमुदपात्रमित्येतत्समादाय तां दिशं १०
यन्ति यत्रास्य कक्ष स्याष्टो भवति॑ तदेतदेकोल्मुकसमुपसमाधा-
यापूपमादीपयति पर्णसेवाभ्यां परिगृह्य॑ तत्सह पूतितृणानि⁴
भवन्ति॑ तेन कक्षमुपोषत्यथैनमुदुह्वायैवं⁵ विज्ञानमुपैति॑
यदि दहति पुण्यसमं भवति यदि न दहति पापसममैतेन ह
स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्त्रमुपयन्तीति ब्राह्मण- १५
म॑थैतमपूपं प्राश्यापं⁶ उपस्पृश्य गृहानेत्यृषभो गोषु जीर्यति
१ •मुपोषेदिति MU.
२ Thus only M ; चङ्गां all the other MSS.
३ Thus M ; विप्रव्युषित BG ; विप्ररूपित Be U ; Bhav. comments :
उदिते ऽवश्यये ।
४–४ This passage is left out in all etc. M.
५ •मुपोषत्य• M.
६ प्राश्याप M, perhaps rightly