सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 496, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 496

औपानुवाक्यम्
[ १४ । ८ । ] बौधायनश्रौतसूत्रम् । १६५
खलु य एष कश्च सौम्यो ऽध्वरः स महायज्ञस्तेषामसुरा
यज्ञमन्ववाजिगाꣳसन्ने॑ नान्ववायन्ते ऽब्रुवन्नध्वर्तव्या वा इमे
देवा अभूवन्निति॑ । तदध्वरस्याध्वरत्वं॑ । ततो देवा अभवन्न्य-
रासुरा॑ । य एवं विद्वाञ्त्सोमेन यजते भवत्यात्मना परास्य
५ भ्रातृव्यो भवतीति ब्राह्मणमथ समस्तꣳ राजानमुपतिष्ठते
परिभूरग्निं परिभूरिन्द्रं परिभूर्विश्वान्देवान्परिभूर्माꣳ सह
ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शमर्वते शꣳ
राजन्नोषधीभ्यो ऽच्छिन्नस्य ते रयिपते सुवीर्यस्य रायस्पोषस्य
ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त
१० इदमुन्मृज इति॑ । चत्वारो ब्राह्मणसंपन्नाः कामास्तेषां यं¹
कामं कामयते तमादिश्योन्मृष्टे॑ । ऽथावकाशैश्चरति॑ ।
प्राणाय मे वर्चोदा वर्चसे पवस्वेत्युपाꣳशुपात्रमवेक्षते॑ । ऽपाना-
येत्यन्तर्यामपात्रं² । व्यानायेत्युपाꣳशुसवनं॑ । वाच इत्यैन्द्रावा-
यवं॑ । दक्षक्रतुभ्यामिति मैत्रावरुणम्॑ । श्रोत्रायेत्याश्विनं॑ ।
१५ चक्षुर्भ्यामिति शुक्रामन्थिनार्वात्मान इत्याग्रयणमङ्गेभ्य इत्युक्थ्य-
मायुष इति ध्रुवं॑ । प्रतिष्ठाया इत्यृतुपात्रे माध्यन्दिने सवने॑ ।
न प्रातःसवने॑ । वीर्यायेत्यतिग्राह्यं वा षोडशिनं वावेक्षते॑ ।
विष्णोर्जठरमसीति द्रोणकलशमवेक्षत॑ । इन्द्रस्य जठरमसीत्या-
धवनीयं॑ । विश्वेषां देवानां जठरमसीति पूतभृतमथ समस्तमेव
२० राजानमुपतिष्ठते को ऽसि को नाम कस्मै त्वा काय त्वा यं
१ Thus M; यंयं कामं कामयते Be; यं कामं कामयेत UG; यं कामयेत B.
२ अंतर्यामं i.s.o. अन्तर्यामपात्रं M.